पृष्ठम्:भरतकोशः-१.pdf/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाटकगेयलक्षणम् पावाणि भवन्ति । ते कथं राजर्षय इति सन्देहः । तादृशानि कथं नाटकानीति विद्वद्भिरुक्तम् । तज्जातीयं रूपकं नाटक एवान्त- र्भाव्यम् । नाटकलक्षणस्य तेषु कुलचिदप्यभावान्नाटकन्तर्भावः अयुक्त इति बहुवः । सुबन्धुमते नाटकलक्षणम्- सुबन्धुर्नाटकस्यापि लक्षणं प्राह पञ्चधा | पूर्ण चैव प्रशान्तं च भाखरं ललितं तथा समप्रमिति विज्ञेया नाटके पञ्च जातयः | उपक्षेपः परिकरः परिन्यासो विलोभनम् । एतान्यज्ञानि कार्याणि सर्वनाटकजातिषु ॥ (पूर्णादिपञ्चजातीनां लक्षणं प्रत्येकं तत्र तत्र लिखितम् ) मातृगुप्तमतम्- यथारम्भः प्रयत्नश्च प्राप्तिसंभव एव च । नियता च फलप्राप्तिः फलयोगश्च पञ्चमः || गौणनाटक विभागे बहूनि नाटकानि सन्ति । यथा - अश्व- घोषकृतं राजपुत्रीयम् । तस्मिन् बौद्धधर्मान् पात्ररूपेण परिकल्प्य बुद्धमहिमा वर्ण्यते । जयन्त भट्टकृतागमडम्बरे वौद्धक्षपणक कापालिकनीलाम्बर चार्वाकमीमांसकतार्किकाचार्याः स्वस्वमता- चारान्प्रशंसन्ति । तन्नाटकमिति जयन्त आह । प्रवोधचन्द्रोदय, मोहपराजय, सङ्कल्पसूर्योदय, पूर्णपुरुषार्थचन्द्रोदय, चैतन्य | सन्ति । चन्द्रोदयादीनि बहूनि सन्ति । येषु धर्माः गुणाश्च पत्राणि सन्ति । अनुमितिपरिणयः, सपिण्डीकरणविधिः-इत्यादिरूपकेषु केवलं शास्त्रचर्चा पात्रवाक्यैर्वर्णितास्ति। ऐतेषां नाटकत्व केवलं गौण- तया वक्तव्यम् । शारदातनयः पता: पावस्थाः । नाटके पञ्चसन्धयः | मुखप्रतिमुख गर्भ विमर्शनिर्वहणानि । भरतमतेध्येतानि तुल्यानि | तेषामङ्गानि भरतमते चतुष्षष्टिः । मातृगुप्तमते पञ्चदश । भरतेनानुक्तान्येवैतानि । मुखसन्धौ । • आरंभ: हेतु चिन्तनं साध्योपगमन मिति त्रीण्यङ्गानि । प्रतिमुखे संपत्तिः प्रसरः चित्तसाधनसंबन्ध इति त्रीणि गर्भे योग्यता सिद्धिदर्शन मित्रसंपत् इति त्रीणि । विमर्शे नाशः सविघ्नता पुनर्बीज संपत्तिः । निर्वहणेऽर्थसंपत्, सिद्धिः, निर्वाहः । मुखादि- सन्धयः कार्यस्य, साधकः साधनं साध्यं सिद्धिः संभोगः इति पवावस्थाः साध्यादिपञ्चकमिति नाम्ना व्यवडियन्ते । 6 g नाटकगयलक्षणम् 66 तुम्बुरुकृतम् । एकः प्राकृतग्रन्थ: आक्षिप्तिकादिलयताल- लक्षणो विद्यते । सोऽत्यल्पपरिमितः । तस्यान्ते “ गा धव्वराय - तुम्बुरुणा नाडकोयरस लक्खणं एवं" इति विद्यमानत्वात् तुम्बुरु नाटनारायणी नाटकमेव नाटकगेयलक्षण मित्यू हतुमवकाशोऽस्ति । विक्रमो- वंश्यां मत्तावस्थायां पुरूरवसोक्तानामाक्षिप्तिकादिगीतानां लक्षण- मात्रास्ति । नाटकप्रियः–मेलकर्ता (रागः) सरि०ग०म०प० घनिस नाटकरत्नकोश: सागरनन्दिकृतः । सङ्गीतराजस्थापि रत्नकोशरूपेण विभागः का ग्रहमोक्षलयज्ञा च रसभावविभाविका । परभावेङ्गितज्ञाच आचार्यानुगता तथा ॥ चतुराभिनयज्ञाना चोहापोहविचक्षणा । निपुणा भाण्डवाद्येषु नाटकीया प्रकीर्तिता || नाटकुरञ्जी-मेलराग: काम्भोजीमेलजोऽयं रागः । अथ नाटकुरञ्ज्याः स्वादारोहे मेषवर्जनम् । पिकवक्रमथान्यत्र त्यजेद्दषभपञ्चमौ ॥ आरोहे गोवर्ज्याः। पवमस्य वक्रा गतिः। अवरोहे रिपौ बक्यौँ । परमेश्वरः -मेलरागः (हरिकाम्भोजीमेलजन्य:) प (आ) सरिगम धनि प ध नि स. (अव) सनिधमगस. • नाटकुरञ्जीरागध्यानम् नायकोष्ठगतवामकरायां तस्य हस्तयुतनीलंकचात्राम् । दक्षिणेन च करेण चपेटां चिन्तयामि खलु नाटकुरञ्जीम् ॥ भरतः नाटनारायणी– रागः धांशन्याससमायुक्ता तारे गान्धारभूषिता। घमन्द्रा परिपूर्णा च ककुभाइ समुत्थिता । करुणे विनियुकेय नाटनारायणामिधा ॥ रागसागरः जगदेक: