पृष्ठम्:भरतकोशः-१.pdf/३४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नटरागध्यानम् नाटरागध्यानम् घनाश्वरोहिणं कृपाणखेटधारिण धनुज्ञशराग्रहस्तमद्भुतप्रतापमुग्रशेखरम् । युधिप्रचारिणं कबन्धसंवृत्तं दयापरं सदा भजामि नोटरागचन्द्रमौलिशेखरम् ।। नाटा - रागः षड्जांशकग्रहन्यासा संपूर्णा च समस्वरा | तथा तारा च सन्द्रा च यावद्द्वान्धारपत्रमौ । भाषाया मञ्जरी तस्य अङ्गं नाटाभिधीयते || रागसागरः | -रूपकम् लक्ष्यते नाटिकाप्यत्र मिश्रवस्तुसमाश्रया। तत्र वस्तुप्रकरणान्नाटकान्नायको नृपः ॥ प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः । देवी तत्र भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ गम्भीरा मानिनी कुछात् तद्शानेतृसङ्गमः । प्राप्या तु तादृशी मुग्धा दिव्या चातिमनोहरा || अन्तः पुरातिसंबन्धादासन्ना श्रुतिदर्शनैः । अनुरागो नवावस्थो नेतुस्तस्याप्यथोत्तरम् ॥ नेता तत्र प्रवर्तेत देवीत्रासेन शङ्कितः । कैशिक्यश्चतुर्भिश्च युक्ताङ्गैरव नाटिका || जगदेवः । अस्य केरलभाषाव्याख्याने गान्धारपदमौ प्रवेश्यावित्युक्तम् । नाटिका – रागः ग्रहांशन्यासषड्जा स्यात्संपूर्णा नाटिका मता । प्रथमा मूर्छना ज्ञेया गमकै हुभिर्युता ॥ दामोदरः अमृतानन्दी सभेदा कै. शिकी यत्र शृङ्गारद्वयमुज्वलम् । चतुरई सहासं च नाटकं नाटिकां विदुः 11 स्त्रीप्राया चतुरका ललिताभिनयात्मिका सुविहिताङ्गी । राजोपचारयुक्ता प्रसादनक्रोधसंयुता चापि || नायकदूती देवी परिजनवती नाटिका । सभेदेति । नर्म नर्मगर्भ नर्मस्फोट नर्मस्फञ्जा: । शृङ्गारद्वये संभोगविप्रलम्भौ । सहासमिति । विदूषकयुतम् । अविमर्शहीनं सन्धिचतुष्कम् । अन्तःपुरे कथमपि निवेशितकन्यापरिणय- विधियुक्ता धीरललिता देवी। तस्याः क्रोथः तस्या एव राहः नाट्यम् प्रसाधन स्वाधीनभर्तकाविषयः । कन्याविषये संभोगविप्रलम्भौ कार्यों । येनास्या उत्कण्ठिता विरहिणी लाaraur दर्शयन्ते । राजा च भार्याजितः । नायिकचैव भर्तुरभ्युदयिनः अन्तःपुरं किं ते करोमीत्यभिधाय संहारः कर्तव्यः । निदर्शनं प्रामेयी रत्नावली। सागरनन्दी नाटी-सेलरागः ( चल्नाटमेलजन्यः) ( आ ) (अव) सनिपम रिस. सरिगमपध नि सनिस. नाट्यम् - शिल्पकाङ्गम् विजित्य पृथिवीं सर्वामित्यादौ तद्विलोक्यते नाट्य स्वपौरुषोत्कर्षावेशस्य प्रतिपादनम् || शारदातनयः उदाहरणस्य समान वाक्यं कर्णभारनाटके कर्णोक्तं लभ्यते । वैशारद्यनामकं शिल्पाङ्गमुक्तं सागरनन्दिना। तल्लक्षणं तु आत्मनः पौरुषप्रतिपादनं वैशारद्यम् । यथा- रामाभ्युदये क्षपानलेवादि वालिवचनम् | नाट्यमनुकरणे । अवस्था या तु लोकस्य सुखदुःखसमुद्भवा । तस्यास्त्वभिनयः प्राज्ञैः नाट्य मित्यभिधीयते ॥ इति भरतोक्तम् । नट चरिते इत्यस्मादुणादिः । योऽयं स्वभावो लोकस्य सुखदुःखसमन्वितः । सोऽङ्गाद्यमियोपेतो नाट्यमित्यभिधीयते । सागरः सागरनन्दी अयमिति । प्रत्यक्षकल्पानुव्यवसायविषयो लोकप्रसिद्धः सत्या- सत्यादिविलक्षणत्वात् यच्छन्दवाच्यो लोकस्य सर्वस्य साधारण- तथा स्वत्वेन भाव्यमानश्चर्व्यमाणोऽर्थो नाटयम् । स च सुख- रूपेण विचित्रेण समनुगतो न तु तदेकात्मा । तथाहि - रतिहा सोत्साहविस्मयानां सुखस्वभावत्वं । तक तु चिरकालव्यापि- सुखानुसन्धिरूपत्वेन विषयौ मुख्यप्राणतया विषयाशंसाबाहुल्ये- नापायभीरुत्वाद् दुःखांशानुवेधो रतेः । हास्यस्य सानुसन्धानस्य विद्युत्सडझाल्पदुःखरूपसुखानुगतात् उत्साहस्य तात्कालिक. दुःखायासरूपनिमजनानुसन्धिना यदि भावि बहुजनोपकारि चिरतरकालभावि सुखसमीचिकीर्षात्मना सुखरूपता, विस्मयस्य निरनुसन्धानतदित्तुल्यसुखरूपता, श्रोधमयशोकजुगुप्सानां तु