पृष्ठम्:भरतकोशः-१.pdf/३५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नायकालप्रमाणम् दुःखस्वरूपता । तल चिरकालदु:खानुसन्धिप्राणः विषयगतामभि- लाषितानां भावना प्राणतया सुखदुःखानुवेधवान्क्रोधः । निर- नुसन्धितात्कालिक दुःखप्राणतया तदपगमाकाङ्क्षोत्प्रेक्षितसुखानु- संभिन्न भयम् । द्वैकालिकः स्वाभीष्टविषयनाशजः प्राचनसुख- स्मरणानुविद्धः सर्वथैव दुःखरूपः शोकः । उत्पाद्यमानदुःखानु सन्धानजीवितविषयात्पलायन परायणरूपान्निषिद्धयमान शङ्कित- सुखानुविद्धा जुगुप्सा | सभस्ततत्पूर्वदुःखसञ्चयसंस्मरणप्राणितः संभाविततदुपरमबहुलसुखमयो निर्वेदः । एवं व्यभिचारिप्रभृ तिष्वपि संवित्स्वभावा सुखादय इति च दर्शनेन तत्स्वभावात् ' अन्ये त्वत्र तद्वेदनरूपत्वमेव तेषां मन्तव्यम् । एवं लौकिकाः ये सुखदुःखात्मानो भावाः तत्सदृशः तत्संस्कारानुविद्धो नाट्यलक्ष णोऽर्थः समुदायरूपः तस्यैव भागानुसमय: आङ्गिकादयोऽभि- नयाः प्रत्यक्षसाक्षात्कारकल्पौकिक सम्यङ्गिथ्याज्ञानादिरूपस्यैव भावाः, अङ्गादयो रत्यादिविलक्षणास्वादपर्यायप्रतीत्युगयोगिनः । अत एवाभिमुख्यनयनहेतुत्वात अन्यलोक शास्त्राप्रसिद्धेनाभि- नयशब्देन व्यपदेश्याः । तथो अङ्गानि शाखानृत्तगीतानि आदयः प्रधानाः येषां ते अङ्गादयः । व्यभिचारिणो भावाः आयो हेतुरूपाः विभावा: अनुभावाः एते रसाभिमुख्यनयनहेतवः । तैरुपेतः उपसमीपं इतः संविदर्पणमभिसङ्कान्तः एवं भूतोऽर्थो नाट्यम् | नटनीयें नर्तनीयं नर्तन तथा च गमनीयं यत्नेन स्वरूपतो हृदयेनानुप्रवेष्टव्यं तथा नाटकानां पारम्पर्यात्मकं वृत्तं नाट्यं धर्मान्नायरूपं च तच सुखदुःखाभ्यां फलरूपाभ्यां सम्यगन्वितं तेषां पञ्चाद्भावित्वातेन हेयो पायव्युत्पत्तिः फलम् । अभिनवगुप्तः भरतः यस्मात्स्वभावं सन्त्यज्य साङ्गोपाङ्गगतिक्रमैः । प्रयुज्यते ज्ञायते च तस्माद्वै नाटकं स्मृतम् ॥ यस्मात्स्वभाव सन्त्यज्येति नट नवाविति नमनं स्वभावत्यागेन महीभावलक्षणं, नटशब्दो जनिदाच्युसूत्रेण ( उणादि ४-११५) व्युत्पादितो गृहीतव्य इति दर्शयति । साङ्गोपाङ्गा ये पदक्रमा: गतिवैचित्र्याणि । एतच्च समस्त नाट्याङ्गोपलक्षणम्। प्रयुज्यत इति नटैः ज्ञायते चेति सामाजिकैः । तेनोभयोरप नमनमुक्तमिति संभावनाकृतमौचित्यम् । अभिनय: नाट्यकालप्रमाणम् याममात्र समाध्यं यत्तन्नाट्यं रागवर्धनम् । दीर्घ विरागजनकमतो नाटयं विवर्जयेत् ॥ शुभकरः । नाट्यगुणाः वयोऽनुरूपः प्रथमं तु वेषो वेषानुरूपश्च गतिप्रचारः । गतिप्रचारानुगतं च पाठ्यं पाठ्यानुरूपोऽमिनयञ्च कार्यः ॥ भरतः नाट्यचूडामणिः सोमनार्यकृतः । काल: १५४०५ अस्य अन्थस्य खररागसुधारस इति नामान्तरमध्यस्ति । अत्र षण्णवति मेळरागाः प्रदर्शिताः । नाट्यटिप्पणी प्रतापजग दे कमलकृता नाट्यशास्त्र व्याख्यारूपा नाट्यप्रयोगः नाट्यदर्पणः एतन्नामानौ हौ ग्रन्थौ वर्तते । एको हेमचन्द्राचार्यशिष्येण रामचन्द्रेण कृतः । मुद्रितश्च । अन्यो नाट्यदर्पणग्रन्थः केन कृत इति न ज्ञायते । अन्थेऽस्मिन् वृत्तभाग एवोपलभ्यते । भरतानुसारी । प्रायशः द्वादशशत के निर्मित: स्यात् । नाट्यप्रक्रिया-~~-(अर्वाचीना) (अथानुक्रमणीं वक्ष्ये) तत्रादौ मुखचालिका । यतिनृत्तं शब्दचाली उडुपानि ध्रुवाटकम् ॥ नानाविध लागनृतं सूडशब्दमतः परम् । नानाविध शब्दनृत्तं विवर्त काडसंज्ञिकम् ॥ सूडद्वये गीतनृत्तं नानागीताश्रितं ततः । बिन्दुनृत्यं ततः कुर्यात्कोलचारीसमन्वितम् ।। देशीकट्टडनृत्यं च वैपोताख्यं ततःपरम् । बन्धनृत्तं कल्पनृत्तं झहरी द्रौपदं ततः ॥ खण्डमानेन विविधं बहुरूपमिति क्रमः । पेरुणी गौण्डली चैव नृत्तमन्यद्यथोचितम् ॥

दामोदरः नाट्यप्रयागः रङ्गस्थलप्रयोगादारम्भविधिर्भरतेनोक्तो यथा-- प्रयोगसिदानीं वक्ष्यामः -- तत्रोपविष्टे प्राङ्मुखे रङ्गे कुत पविन्यासः कर्तव्यः । तत्रपूर्वोक्तयोः नेपथ्यगृहद्वारयोः मध्ये कुतपविन्यासः कार्यः । तंत्र रङ्गाभिमुखो मौरजिकस्तस्य पाण- विकदार्दरिको वामतः एष प्रथममवनद्धकुतपविन्यास उक्तः । तन्त्रोत्तराभिमुखो गायनः गायनस्य वामपार्श्वे वैणिकः वैणिकस्य दक्षिणेम वंशवादकौ । गातुरभिमुख गायिका इति कुत पविन्यास:। तत्र प्रयोगः --- अचलाकम्पितास्खलितासन्नोपविष्टेषु मार्दङ्गिक पाणविकदारिकेषु शिथिलाविनितेषु यथा भामराग- मार्जनालिप्तेषु मृदङ्गेषूरुद्वयनिपीडने निगृहीतार्धनिगृहसमु -