एतत् पृष्ठम् अपरिष्कृतम् अस्ति

নাম্বলী अस्य योनिभेवेङ्गानॆ वीणा वॆ३ास्तथैव च । भरतः गानमिति । केवलं खण्ड्यं गानम्। भरतमते ध्रुवागानमेव । गान्धर्व तत्र विज्ञेयं खरतालपदात्मकम्। पुरः प्रणष्टान्देवेभ्यो वाचै गोरूपधारिणीम् । अधारयदिति प्रोक्तं गान्धर्वै पूर्वसूरिभिः । अत्यर्थमिष्टं देवानामत एव प्रकीर्तितम् । वंशवीणाश्ारीरेभ्यः प्रभवस्तस्य सम्मतः । कुम्भः -करणमू यत्रैकपाश्र्व स्थानं स्यात्पताकाख्यौ करौ तदा। उत्लुत्योत्लुह्य पादाभ्यामडुलीपृष्ठदर्शनम्। उपरि भ्रमितैौ ह्स्तैौ क्रमाद्ान्धर्वमीरितम्॥ हृरिपालः गान्धर्वः–गायकः - गान्धर्वो मार्गदेशीवित् स्वरादेर्मार्गकोविदः । गान्धर्ववेद्संग्रह्ः–गान्धर्वशास्त्रसङ्क्षेपः तिळक्तः । अत्र पञ्चाशदुत्तरशतद्वयशालीकाः वर्तन्ते। अत्र भरतो गुरव इत्युक्तः। विशाखिलकीह्लनारद्ाः स्मृताः। गान्धर्वस्य वैविध्यम् गान्धर्व ब्रिविर्ध विद्यात्खरतालपदात्मकम्। स्वराश्च श्रुतयो प्रामौ मूर्छनास्तानसेंयुताः । शुष्कसाधारणे वर्णा अलङ्कारास्सधातव: । आवापस्वथ निष्क्रामो विक्षेपश्च प्रवेशनम् । इाम्या ताल: परीवर्त: सन्निपातस्सवस्तुकः मावा विदृथैिङ्गुळयो गीतिः प्रकरणं यतिः गीतयोऽवयवा मागीः पातभागास्सपाणयः । इत्येकविंशको ज्ञेयो विधिस्तालगतो बुधैः ॥ पदगतस्तु - व्यञ्जनानि खरा वर्णाः सन्धयोऽथ विभक्तयः। नामाख्यातोपसर्गाश्व निपातास्तद्धिताः कृतः॥ वृत्तानि जातयश्चैव भवेत्पद्गतो विधिः । गान्धर्वसङ्ाहो ह्येष विस्तरं च निबोधत । कुम्भः भरतः गान्धवी-वीणा । - गन्धर्ववीणेति नामान्तरम्। नकुलार्दन लक्षणे द्रष्टव्यम्। } \

गान्धारगतिः–रागः अनन्तरं च गान्धारगतिन्र्यासप्रहांशकात्। गान्धारेण तथा मन्द्रलून्या त्यक्ता तथैव च । पञ्चमेन तु षट्जेन तारा सेयं तु धैवते । ऋषभे च निषादे च गीतविद्भिरुदाहृता ॥ गान्धारगतिका-रागः ग्रहांशन्यासगान्धारा मन्द्रशून्य पसोज्झिता । रिनिधेष्वपि ताराख्या गान्धारगतिकोच्यते । गान्धारादेियैतस्तस्मात् गातव्या करुणे रसे । जगदेऴ्: गान्धारग्रामः आमशब्दे द्रष्टब्यय्। गान्धारो मध्यमस्याद्यां ऋषभान्तां च संश्नयेत्। निषादः प्रथमां षाङ्जीं धैवतान्यां श्रुतिं श्रयेत् ॥ धैवतः पञ्चमस्यान्यां ग्रामे गान्धारसंज्ञके । गान्धारो धैवताख्यश्च निषादश्च चतुःश्रुतेिः । यदा भवन्ति गान्धारग्रामो ज्ञेयस्तद्ा बुधैः । पण्डितमण्डली गान्धारपंचमः-राग: गान्धारांशस्तदन्तश्च रागो गान्धारपञ्चमः । गान्धारी रक्तगान्धारी ताभ्यामेतस्य संभवः । मोक्षुः गान्धारो निधनेंऽशके यदिश... षड्जोर्बलधैवतर्षभ..तानस्यतरों यदि । मूर्छाचेद्धरिणाश्वकार...ससे गान्धारिकाया: पुन:, । तद्गान्धारकपञ्चमः पृथुरतिप्रीतिप्रदो जायते । गान्धारांशस्तदन्तश्च धैवतर्षभदुर्बलः । गान्धारीजातिसंभूतो ज्ञेयो गान्धारपञ्चमः । नास्य: क्श्यपः गान्धारपश्वमी-जातिः चच्चत्पुटस्तत्न चतुष्कलस्य द्वयष्टौ कला मूर्छनिका द्वितीया । सा मध्यमग्रामसमुद्भवा तु गान्धारपूर्वा खलु हारिणाश्वा॥ अङ्केतुरीये खलु नाटकस्य गाने धुवाया विनियोजनै स्यात्। गान्धारक्ो न्यास इहेोदेितोऽपन्यासौ तथैवर्षभपञ्चमैौ च ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/103&oldid=157729" इत्यस्माद् प्रतिप्राप्तम्