एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्नकुण्डली कृत्वा कृत्वा खण्डसूचिस्थानकं च मुहुर्मुहुः । मध्ये मध्ये चङ्कमणैः भ्रमरीभिर्यथारुचेि ॥ स्थानके नृत्तहसैश्च कुर्यादन्वर्थरूपकम्। देशान्तरेषु बहुधा रूपकाणि भवन्यपि !! मुग्धप्रबोधाय मयाद्यैतावत्परिकीर्तितम्। रूपकानन्तरं कुर्यात्सकलातोद्यवादनम् ॥ नवान्यबद्धं नवभिस्तलैर्यत्न प्रणत्येते । तमेव झब्दृचूडादुिं कथयन्ति मनीषिणः । आदौ ध्रुवस्ततो मठ्यः प्रतिमण्ठं च रूपकम् । झंपा च त्रिपुटाप्यडुतालेों रम्यैकतालेिका ॥ इतेि ताला नव प्रेोक्तास्तेषां लक्ष्णमुच्यते । विरामं लघुना रम्या ह्येकताले दुतं स्मृतम्॥ ततो बाद्यप्रबन्धानां लक्ष्णै कथ्यतेऽधुना । प्रत्येकं तच्चतुर्भागमुद्ग्राह्ः प्रथमं स्मृतम् । मेलापको द्वितीय स्यातृतीयो धुव इलपि। चतुर्थभागश्चाभोगेो ध्रुवाभोगान्तरे पुनः॥ अवखण्डेोऽन्तरः प्रेोक्त: तेषां दे३यभिधान्यधा । उद्ग्राहभागी लहरी मेलापः पद्मीरितम् । ध्रुवभागोऽन्तरः ख्यातः सोऽन्तरः स्याद्वान्तरः। आभोगभागों मुक्तायी इति देशान्तरेरिता ॥ स्कन्धावजेन ह्यद्वाहो मेलापों मईलेन च। भुजस्कन्धावजेनाथ भुजेन च विमिश्रितः । अन्तरः करटीशङ्खकाहलध्वनिसंयुतः। आभोगों मद्दलोपेतो नृत्तमेषामथेोच्यते । उद्वाहइच द्विवारं स्यान्मेलापस्वेकवारकस्। धुवभागे समाख्यातं द्विवारं नर्तनक्रमम्॥ अन्तरे नर्तयेद्धैं एकाशेषाधेकै परा। आभोगस्त्वेकवारं स्यादन्त्ये शब्दस्तथापरे ॥ नर्तने शब्दसूडादौ गीतसूडादिरुच्यते ।

# पूर्वोक्तनवताळैर्यो नवगीतैश्च संयुतः। गीतं सूडादेिमाचख्युस्तमेव भरतादयः। नामभिनैवतालानां गीतानेि कथितानि च । ततूिधा गीतसृड्रादेिरुतमो मध्यमोऽधमः । गीतान्ययुतमादीनां नव सप्तकपञ्चभिः॥

चित्रकुण्डली नागबन्धासने थित्वा नर्तक्या वाभिमुख्यत:। विलम्बितेनाडुतालनाम्ना गीतेन संयुते ॥ गृहीयाच्च कुबेराक्षौ तौ विक्षिप्य सविभ्रमम्। मृगशीर्षेण सारीस्तु कर्तरीमुखपाणिना ॥ उक्षिप्य देहावर्तन स्थापयेत परस्परम्। नर्तयेतां कुबेराक्षिं पूर्वोत्तॆनैवगीतकै: । त्रिपुटागीतमाश्रित्य गत्य स्थित्या सहोन्मुखम्। किञ्चिच्चञ्चलनेत्राभ्यां युक्ता संपुटकां नयेत् ॥ कथासु नाटकीयासु प्रसत्तेष्वायुधादिषु । आनुकूल्यात्प्रयोगाणां नवगीतैश्व नर्तयेत् ॥ अड़तालैकतालाभ्यां गीतैरन्यैश्च वा पुनः। पादपाटादिभिर्भेदै: पेरणीनृत्तमाचरेत् ॥ नृत्तेद्वसन्तगीतेन वसन्तनटनोत्सुकम्। इक्षुचापः पुष्पशर. काम: इयामलविग्रहः । वामपाश्वेपगतया रत्या पर्यङ्किका तले। वैष्णवस्थानके स्थित्वा सम्यगाविभैवेत्ततः॥ वसन्तरागप्रभवै: अङ्गमावत्यै तेनकैः। समुद्यतकलीदलललेिकोमलनिभैरः ॥ अवरुह्य कलासेन सद्यः पयैङ्किकातलात्। उद्भावोद्धारशब्देन नृत्येतामभिमुख्यतः ॥ पञ्चभिस्तूर्णश्र्ङ्गश्च पुष्पैः कन्दुकदण्डकैः। अङ्गैर्मनेोह्रं नृत्तलीलाभावरसान्वितम् । समाचरेतां पात्रे तु स्थित्वा द्वे द्वे समे परे । करौ निधाय कर्पूरचूर्ण पन्नगशीर्षके ॥ व्यावृत्यादाय विक्षिप्य शिखरेण कलासयेत्। पताकया श्रृङ्गपुष्पे निवेद्य द्रक्ष्वामयोः। णेनाप्नेचन्द्रेण समालम्ब्य स्रगञ्चलम्। वमा करो विधातव्यो लताख्यो माल्यनर्तने। पुष्पकन्दुकमादाय दक्षिणे पद्मकोशके वामेो मृगशिरः कायै: पुष्पकन्दुकनर्तने ॥ अङ्गुष्ठसदृशस्थौल्यं विंशत्यङ्गुळमात्रकम् । सरलं प्रन्थिरहितं वर्णपश्चकभूषितम् । हेमपट्टनिबद्धाग्रे हैमं दण्डद्वयं परम्। द्वाभ्यां करसरोजाभ्यां दधानास्सावधानतः ॥ प्रारभ्य पात्रयुगलात्पत्रे द्वे द्वे विवर्धयेत्। भवेयुरष्टयुग्मानि यावद्यद्वा यथारुचि ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/122&oldid=157750" इत्यस्माद् प्रतिप्राप्तम्