एतत् पृष्ठम् अपरिष्कृतम् अस्ति

–रागः (वेशे वाद्नक्रमः ) मध्यमं तु ग्रहं कृत्वा कम्पयेत्तत्परं स्वरम् । चतुर्थे तु विलम्ब्याथ तृतीयं च स्वरं श्रयेत् । द्रुताहृतं विधायैनं पुनः प्रेच्य तमेव च । ग्रहे चेन्न्यस्यते तेीड्याः स्वस्थानं प्रथमं भवेत् । पूर्वस्वस्थानवत्कृत्वा रोह्णे पञ्चर्मे स्वरम् । सृष्ठं स्थायिस्वरान्तं चेद्वरोहे विधीयते । तद्वा द्वितीयं स्वस्थाने तेीड्या: प्रोक्तं तु पण्डितैः षष्ठस्वरावधेि प्राग्वत्कृत्वारोहुं ततः परम् ।। स्थायेिस्वरावधि यद्ावरोह: क्रियते तदा । स्वस्थानं तु तृतीयं स्यातुर्ये स्वस्थानके पुनः ॥ अष्टमस्वरपयैन्तं वेिधायारोह्वर्णे ततः। ग्रहस्वरावधिप्राग्वदवरोहो विधीयते । संप्रोक्तो लक्ष्यतत्त्वज्ञैर्मुद्रितः स्याद्ब्रह्स्वरः। तोडीरागध्यानम् तुपारकन्दोज्वलदेहयष्टिः काश्मीरकर्पूरविलेिप्तदेहा विनोदयन्ती हरिणे वनान्ते वीणाधरा राजतेि तोडिकेयम् । इयं मालवकैशिकभार्या । मृणालकुन्देन्दुसमानगात्री विलेिप्तदेहा हरिचन्दनेन । विनोदयन्ती विपिने कुरङ्गे तोडी विपञ्चीं दधती कराभ्याम् । श्रीकण्ठः कादम्बरीरसविपूरितकाचपात्रां विन्यस्तवामकरशोभितचारुवतूाम्। सव्येन नायकपटाग्रदशां वहन्ती तोडीं सदा मनसि मे परिचिन्तयामि | तीरणम्-वालकः पुरस्तात्रुतिकौ भूत्वा ततो विच्युतितां गतौ। पार्श्वेयोर्लेडनं प्राप्य पुनरस्तिकबन्धनौ। चित्वा इषेिोपरिकरौ ततस्तौ वियुतौ पुरः। लेोलितौ यत्र तत्प्रोक्तं चाळकें तोरणाभिधम्। रागसागरः अशोष्ाः Z त्रावणी सगमैबैलवद्धिर्मापन्यासेन सनिधतारयुत । निवणेीद्भवा च परित: परिरहेिता भवति लक्ष्णत: । कश्यपः त्रस्ता–दृष्टेिः उद्वत्तवत्र्मन दृष्टि तथोत्कम्पिततारका । を。 प्रस्फुरत्फुल्लमध्या च त्रस्ता त्रासे प्रयुज्यते सोमेश्वरः ऊध्र्वोद्धान्तपुटद्वन्द्वा कम्पमानकनीनिका। निस्ता दृष्टिरियं नासे वेपथौ च प्रकीर्तिता । वेसः त्नावणिकारागध्यानम् कदलीमूलासीना पीनकुचाधीननायका तन्वी । कनकनिभा शुभहारा त्रावणिक वण्र्यवेणीका ॥ सोमनाथः लावणी-रागः तदनु त्रावणी नाम्ना भिन्नषड्जसमुद्भवा । धैवतांशयुता सेयं वर्जितर्षभपञ्चमा । अयं तु मेघनाद्स्याद्वन्थेस्मि......समीरितः॥ त्रासः-चित्राभिनयः विद्युत्पिशाचगर्जायैजैनितखास इष्यते। कर्तरी चोर्ध्वभागे तु चालेिता विद्युदर्थके॥ पताकौ द्वौ चोध्र्वभागे चालेितौ भूतदर्शने। सपैशीर्षः पुरोभागे बद्धश्वेत्सर्पभावने ॥ –व्यभिचारिभावः r विद्युदुल्काझनिनेपातनिर्धाताम्बुधरमहासत्वपशुरवादयो वि भावाः । संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भरोमाञ्चगहूदप्रलापाद्योऽनुभावाः भवतेि चाल महाभैरवनादाद्ये (दे) स्त्रासात् (सः) समुपजायते । स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् । वेिनायकः भरतः त्रासो भयात्पृथगुद्वेगळुरूप: । सत्वाशनिरवादिभिर्जायते । कम्पस्तम्भसर्वाङ्गपिण्डनगहूढोक्तिभिरभिनेयः । तत्वज्ञैर्मनसः कम्पस्त्रास इत्यभिधीयते। गजमेधाशनिस्थूणसंघट्टादुपजायते । । भवन्ति पतनोत्कम्पसंभ्रमालोकनाद्यः॥ सागरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/145&oldid=157775" इत्यस्माद् प्रतिप्राप्तम्