एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूचीहरूतः पुरो भागे परशब्दनिरूपणे। अधोमुखौ पुरोभागे पताकौ द्वौ स्थितौ यदि ॥ सम्पत्यर्थे दशैयन्ति भरतागमवेदिनः। श्मश्रुस्थाने पताकस्य चलनचौंर्यभावने। हृदिस्थाने तु मुकुलो गुणभावनिरूपणे ॥ पार्श्वभागे पताकं तु विसृजेच्चापि निन्दने । विनायकः अस्तम्-श्रृङ्गाराङ्गम् सवितुरस्ताचलोपगमनमस्तम्। মীত: अहङ्कारः---नाश्चालङ्कारः कार्ये क्षमत्वम्। यथा-कीचकाङ्के-“ बाढं व्याहृता द्रौपदी श्रियेतेि ” इति कोचकवाक्यम् । सागरः अर्हे तु इाक्तः कार्येस्मिन्नार्मीं शक्तास्तु जन्तवः । इत्थमस्पृष्टकार्यात्मगुणदोषस्त्वहुंकृतिः ॥ अहोबिल: सङ्गीतपारिजातकार । १६०० काले स्यान्। भावविवेकः अं अ--ऑविनिं: आवापादिधुवादीनामष्टानामादेिवर्णतः। ग्रह्णे क्रियते चात्न बुद्धया मनसि धायैताम्। संगीतसागरः आकम्पितम्-शिरः ऊर्ध्वाधोट्टैि: प्रयुक्तं यन्मन्दमाकम्पितं तु तन् । प्रश्न ग्रन्धार्थनिर्देशे स्वाभिप्रायस्य वर्णने । उपदेशे तथाह्वाने संज्ञायां च प्रयुज्यते । आकम्पितं तदेव स्याद्विः प्रयुक्तं शनैयैदेि । एतत्पौरस्यनिर्देशे प्रश्ने संज्ञोपदेशयोः । आवाहने स्त्रचेित्तस्थकथने च प्रयुज्यते ॥ वेिप्रदास्रः शार्ङ्गः आकर्षः : किन्नर्य वामह्स्तव्यपारः । तत्र द्रष्टव्यम्। आकीर्णः- वाद्यप्रकारः अवकीर्णस्य पाठान्तरम्। आकुञ्चितम्न-देशीस्थानम् सर्वमाकुञ्चितं गात्रमाविद्धे यन्न जानुनी । तद्ाकुऴ्तिमाख्यातं शीतार्ताभिनये तु तत् । वेमः आकुञ्चितम्-शयनकर्म सर्वैराकुञ्चितैरङ्गैः शय्याविद्धे तु जानुनी । स्थानमाकुश्छ्रितं नाम शीतार्तानां प्रयोजयेत् । भरत: आकुञ्चितम्न-स्थानकम् सर्वमाकुञ्चितं गात्रमाविद्धे यत्र जानुनी । तदाकुञ्चितमाख्यातं शीतार्ताभिनये तु तत् । आकुञ्चितः--मणिवन्धः अन्तर्निम्नस्समाख्यातो धीरैराकुञ्चिताभिधः प्रायः प्रयुज्यते धैरैरेष वस्वपसारणे ॥ अशोकः अन्तरा निम्नत नीतो बुधैराकुञ्चितस्मृतः । मणेिबन्धः प्रयोज्योऽयं जनसङ्घापसारणे । आकुञ्चितो बहेिर्वक्रः सोऽपसारे नियुज्यते । सोमेश्वरः आकृतिछन्दोवृत्तानि चत्वारिंशत्तथैकं च सहस्राणां शतानि तु। तथा चेह सहस्राणेि नवतिश्चतुरुत्तरा। झतत्रयं समाख्यातं ह्याक्त्यां चतुरुत्तरम् ।। ४१९४३०४ भरतः आकेकरा-दृष्टिः आकुञ्चितपुटप्रान्ता सङ्गतार्धनिमेषिणी । मुहुव्यावृत्ततारा च लोके साकेकरा स्मृता ॥ ईषद्वक्रपुटापाङ्ग तिर्यगर्घनिमेषिणी । यस्याः कनीनिके दृइये विपरीतवेिवर्तिनी । सा दृष्टिराकेकरा स्याद्विच्छेदप्रेक्षिते भवेत्। सापराधे प्रियास्नेहविच्छेदेन यदीक्षणप्। तद्विछेदृप्रेक्षितं स्याद्दूरालोकेऽप्यसौ मता ॥ सोमेश्वरः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/40&oldid=157834" इत्यस्माद् प्रतिप्राप्तम्