एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करिहरूतम्र-करणन् वक्ष्स्स्थ: खटकेो वाम: कर्णे सोद्वेष्टनः परः । विपताकः करः पाद्: तत्तद्दिक्समञ्चितः। यत्र निष्कामणीयस्यात्करिहतं तदीरितम् । करिहृतः–-नृत्तहृतः ऐलेितोत्थी लताहस्त ऐलावत्पार्श्वयोर्यदि । अन्यः कर्णस्थिती यन्न खटकास्योऽथवा करः । त्रिपताकस्तदा प्राहुः करिह्रूतमिमं बुधाः। इहैकवज्ञने मानं मुनेर्वचनमेव हेि ॥ *. সমান্ধ; सजातीयतया अनारम्भोऽस्य चतुरश्रवद्विजातीयारम्भोऽपि नृत्ताभ्यासस्य व्यपदेशादरालखटकामुखवदतो न द्विवचनम् । एकैकस्य पृथक्प्रयोगे करिहरूतत्वाभावादित्येकवचनमेव। तदाकारत्वाचेदं नामेत्यभिनवगुप्तः । -नृत्तह्स्तः ननु द्विवचनान्तत्वमन्न कस्मान्न जायते । ह्रस्तद्वयप्रवत्यैत्वाद्धैरेचेितह्स्तवन् । अवाभिधीयते तत्र भवेद्दिवचनान्तता । यत्रैकशब्दाभिधेयौ सजातीयावुभौ करौ॥ यथोक्ते पल्लवौ यद्वा भिन्नशब्दनिरूपितौ । विजातीयावुभौ यद्वद्रालखटकामुखौ ॥ लोके निष्पन्नेकशेषद्वन्द्रे पदविधी तथा। दृष्टं द्विवचनान्तं च घदौ घटपटावितेि ॥ एक एव लताह्स्ती ह्रतिह्स्तसमाकृतेिः । उज्यते-करिहतेन नखाद्दिवचनं ततः॥ नैतद्युक्तिसहं यद्वदरालखटकामुखौ। विजातीयाविमौ तद्वत्पताकखटकामुखौ ॥ अथ तच्छब्दवाच्यत्वमत्र वास्तीति चेन्मतम् । पताकयोः पल्लवता स्यादतच्छब्दयोः कथम्॥ अथ तच्छब्दवाच्यत्वं सजातीयेन कारणम्। अथ शब्दौ विजातीयौ दण्डपक्षौ विलोकय ॥ तदाकृतित्वं संज्ञाय। हेतुस्तचेकसाधितम् । इति चेद्स्य ह्स्तस्य नियमो निष्फलो भवेत् ॥ न चान करिहस्तोऽयं मुखे करिकरस्थितः । किन्तु कारणह्रस्तस्य तुल्याकारे प्रयुज्यते । तत्तेन कथ्यते तुल्यं यद्दृष्टौ यत्स्मृतिभैवेत् । एकेन करिकर्णस्य ह्स्तस्यान्येन तु स्मृतिः । तस्मादुभाभ्यां नियतव्यापाराभ्यां प्रकाशते । হুয়া: द्वीनाङ्गो व्यसनप्राप्तिर्देशभ्रेशाद्यस्तथा । विभावा: स्यु: श्रुता यद्वा साक्ष्ाद्देव विलोकिताः । प्रलयस्रस्तगात्रत्वं विलाप: परिदेवनम् । अश्रुपातो मुखे शोषो वैराग्यं स्वरभेदनम् । श्वासोच्छुसँौं देहपाताघातोरस्ताडनाद्यः । एतैरभिनयैरेनमनुभावैर्नटी रसम् । रोदनं यद्भवेच्छोच्यगुणस्तवपुरस्सरम् । सविलाप स्मृतो देवाबुपालन्भेन रोदनम्। परिदेवनमेिलुक्तं तद्विदुं ३ाब्दृकोविदैः । निर्वेदो ग्लानिरौत्सुक्याबेगमोह्रश्रमा भयम् । विषादोन्माद्दैन्यानि व्याधिरित्येवमाद्यः । सञ्चारिणः स्यु करुणमेतैभवैस्तु पोषयन्। त्रिविधोऽयं मानसिकवाचेिकाङ्गिकभेढत: । वाच्यार्थाननुसन्धाननिश्वासोच्छ्रासदीर्घता । उपेक्षा केशवस्त्राङ्गसंस्कारादिषु दीनता ! अनुभूतानभिज्ञत्वमनवस्थितचेतनां । अाका३ार्वीक्ष्णं चेतेि मानसः करुणो रसः । हाकारो रोदर्ने क्रोशः प्रलापो दीनभाषणम्। दूराह्वानमथाक्रन्दो याचिकः करुणः स्मृतः । विवर्तेन शरीरस्य बाहुपाविधूननम् । शिरोरस्ताडनं शीर्षधूननं पतने मुहुः । धावनं ह्स्तविक्षेपः करुणस्त्वाङ्गिको भवेत् । अाद्यः स्यादुत्तमं मध्यनीचयोर्द्वावनन्तरौ । धर्मापघातजो वित्तनाशजो बन्धुनाशजः । त्रिविधः करुणो ज्ञेय आाद्य उत्तमपूरुषे । ہماچہ r . विप्रदासः शापल्लेशोपघाताद्यैर्जायते करुणो रसः । । अश्रुविइवासवैवर्ण्यस्रस्ताङ्गत्वस्मृतिक्ष्यैः। परिदेवितशोषाद्यैरभिनेयस्ससूरिभिः । खरभेदाश्रुनिर्वेविषादावेगमृत्यवः । मोहापस्मारजडता चिन्तैौत्सुक्यं च वेपथुः। दैन्यं वैवण्यैमालये व्याधिग्लनिस्तथा श्रमः। स्तम्भाद्याश्च चरा भावाः खायी शोकोऽख च स्मृतः॥ ब्रह्मसंवित्समाखाद्: करुणो यस्सुखात्मकः। सागरः विप्रलम्भरसोयैवेति वचनाञ्च, ‘एकोरसः करुण एव निमित्तभेदाद्भिन्न:' इत्यादेि करुणप्रभोर्वचनाञ्च करुणस्यैव साम्राज्यमेिति तत्त्वविदः । ननु श्रृङ्गारो नायको रसः।' श्रृङ्गारमेवं रसनाद्रसमामनन्ति ’ इति च, शृङ्गारयैव प्राधान्यं श्रूयते । कथॆ करुण

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/74&oldid=157871" इत्यस्माद् प्रतिप्राप्तम्