पृष्ठम्:भरतकोशः-२.pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षड्जग्रामे पञ्चमी मूर्धना (आ) म प ध नि स रिं ग (अव) वा र स नि ध प भ भत्सरीकतेत्यपि नामान्तरमस्या इयते । मध्यमालापसरणे सा भवेन्मत्सरीकृता । मत्सरे मत्सरीकृता मत्स्यकरणश्-उप्लुतिकरणम् उत्प्लुतेर्मध्यमावृत्या कुरुते वामपार्श्वतः। परिवृतिं तदा यत्र तन्मत्स्यकरणं भवेत्। यद्वा कस्यापि करणस्यान्ते तु क्षितिमण्डले । उत्तानशयतो मध्यै नितम्बोन्नतिपूर्वकम् आवये बामपाश्र्वेन मत्स्यवत्परिव च। अन्ते समुत्प्लुतिं कृत्वा पादोलालनया क्षणात्। उतिष्ठेद्यत तदपि मत्स्याद्ये करणे भवेत्। कुञ्चितस्थानके स्थित्वा हृदये शिखरद्वयम्। ततः पताकौ प्रसृतौ पुरस्तादुत्लुतिः पदे । अन्तराले यदा श्यातां वलने मत्स्यपुच्छकम् । नर्तकस्तु ततः कुर्यादुत्कटस्थानके स्थितिम्। मत्स्यशाला-स्त्री दीर्घपीनोन्नतोरस्का चला नातिनिमेषिणी बहुभृत्या बहुसुता मत्स्यसत्त्वा जलप्रिया । मत्स्य करपृष्टपरिन्यस्तो यत्र हत्तस्त्वधोमुखः । किञ्चित्प्रसारिताङ्गष्ठकनिष्ठो मत्यनामकः । पुरोभागे त्वयै हस्तो मत्स्यार्थस्य निरूपणे । मथुरा-श्रुति ऋषभस्य तृतीया श्रुतिः । ४५८ भरतः मृदः-व्यभिचारिभाव मदो नाम मद्योपयोगादुत्पद्यते । स च त्रिविधः । पञ्चविभा | वश्च । तरुणमदः, मध्यमदः, अपकृष्टमदः । इति त्रिविधः। मद्योपयोगादैश्वर्याद्विद्यया चाभिजन्मतः । उत्तमस्त्रीपरिष्वङ्गान्मदः सम्पद्यते नृणाम् । कश्चिन् मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित्। परुषवचनाभिधायी कश्चित् कश्चित् तथा रवपिति । उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः। परुषवचनाभिधायी रोदित्यपि चाधमप्रकृतिः ।। स्मितवचनमधुररागो धृष्टतनुः किञ्चिदाकुलितवाक्यः। सुकुमाराविद्धगतिरतरुणमद्रतूत्तमप्रकृतिः ॥ स्खलिताधूर्णितनयनः स्रस्तव्याकुलितवाहुविक्षेप कुटिलव्याविद्धगतिर्मध्यमदो मध्यमः प्रकृतिः । नष्टस्मृतिर्हतगतिश्छर्दितहिकाकफैः सुबीभत्सः। गुरुसज्जमानजिह्रो निष्ठीवति चाधमप्रकृतिः ॥ रङ्गे पिवतः कार्या मद्वृद्धिर्नाट्योगमासाद्य । सन्त्रासाच्छोकाद्वा भयप्रकर्षाच कारणोपगत उद्यम्यपि हि कार्यो मदप्रणाशास्तथा तज्झैः। एभिर्भावविशेपैः मदो द्रतै संप्रणाशमुपयाति यैरुभ्युदयसुखैर्वाक्यै शोकः क्षयं यति । अधममदे तु-निमेषोन्मेषचिकार, तारकान्तर्दर्शनं, वक्षुरधो ऽबळेोकनं, एते विकाराः मत् शब्दार्थो मतिर्मानः तदानात्खण्डनान्मदः। शारदातनयः मदस्वानन्दसम्मोक्ष्मदिरासंभ्रमादिभिः । पुरोभागे कर्तरीति चलिता मोहनार्थके। कपित्थाङ्गुष्टचलनं सौभाग्यार्थनिरूपणे ॥ निमीलिताख्यदृष्टिश्च समशीर्ष तथैव च। अधोमुखौ पताकौ द्वौ चलौ चानन्ददर्शने । मुखस्थानेऽर्धचन्द्रस्तु बद्धथेन्मद्यपानके । मधुपानमदप्रायः तारुण्यातिशयोद्भवः विकारो यो वरः क्षीणां तं वदन्ति मदं बुधाः ॥ सन्ध्यन्तरम्