पृष्ठम्:भरतकोशः-२.pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०४ सचिञ्चद्धान्तदण्डपाद् चतस्रक्ष्यपि । दिक्षु पदस्य विक्षेपः कृतोद्वेष्टापवेष्टयोः ॥ पदानुकूलयोः पाषण्यं रेचनाश्रितयोरपि । क्रियते यत्न विक्षिप्तं तदुद्धतपरिक्रमे । विक्षेप-बृहतप्राणः कोष्टाबधि समभ्रान्तौ पूर्ववपुरतःकृतौ। विक्षेपोऽयमिति ख्यातो नाट्यहस्तविशारदैः। टं कूर्परः

  • ६.Rः

चिक्षेपः--अङ्गांवकारः अर्धावसक्तधम्मिल्लः बिसंय्यनिवेशिततिलकः । लोचनै कलग्नकमळलवः । अवहेळघृतपतिष्णुजघनसिचयाञ्चल ताम्बूलरागलेखलाञ्छितैकाधरप्रदेशे विविधविकारना- नर्तको विशेषः । विक्षिप्तक्षिप्तकम् –करणम् व्यावृत्सकरणं येन करेण प्रविधीयते । तेनैव सह विक्षितं स एव चरणो बहिः। आक्षेपो इतपदस्य तस्यैव परिवर्तनात् । अन्याङ्गं च भवेदेवें विक्षिप्ताक्षिप्तकाभिषे । एतन्नाट्याङ्गविच्छेदे प्रयोज्यं सन्धिगुप्तये । तालानाभनुसन्धाने गतीनां च परि मे । चारीयुद्धनियुद्धादौ संचारेषु यथोचितम् । केचिदंतागते त्वस्य विनियोगं प्रचक्षते ।। अन्यथा वेषवन्यासो चिकारो यो भवेत्प्रियः। तमामनन्ति विक्षेपं मुनयः कपिलादयः । गतागते वदन्त्यस्य नियोगं केऽपि सूरयः।। स नेष्टो नाट्यविदुषां यतेऽभिनयषाणिभिः। वाक्यार्थाभिनयः कार्यः प्राधान्येनाभिनेतृभिः। इदं तु सद्भिराख्यातं नृत्तमात्रपरं ततः । विसंथळावेशमयो विकारो चित्रधः स्त्रियः । तमामनन्ति विक्षेपं मुनयः कपिळायः । पञ्चः विक्षेपः-तालक्रिया उत्तानितस्य हस्तस्य तस्यैव प्रसृताञ्जलेः । पार्श्व दक्षिणतः क्षेपो विक्षेप इति कथ्यते । क्रिया (तलङ्गम्) क्रियाशब्दे द्रष्टत्रयम् । विक्षेप-देसी चारी पुरः प्रसवे पादसञ्ज्ञयन्मुहुः यदा तदोक्त विक्षेपा चारीनृत्तविशारदैः। यत्र व्यावर्तमाने तु हस्ते तदनुसारतः बहिर्विक्षिप्यते पादः चतुरस्स्रोऽपरः करः ॥ पूर्वोक्तं पाणिपादं तु परिवर्तनकर्मण। आक्षिप्यते तथैवास्य पाणिपाक्षस्य च क्रमात् । विक्षेपाक्षेपणास्यातां विक्षिप्तक्षिप्तकन्तु तत् । विनियोगो भवेदस्य गतागतिनिरूपणे । विनियोगसमं नाध्यबेदिन नैव मन्यते । नृत्तहस्तप्रधानत्वात् नृत्त ऐवैतदिष्यते । अतोऽन्तरालसन्धाने वाक्ययोरभिनेययोः। तथा युद्धनियुद्धे च चारीस्थानसंक्रमे । तक्रियानुसन्धाने तथा महिपरिक्रमे प्रयोज्यमेतत्करणं तत्याभिनये कचित्। भृश-तप्रधानेषु करणेष्वपरेष्वपि प्रतीयेतामयं न्याय इत्युक्तं वेमभूशुजा । विक्षेपि--दर्शनम् विक्षेपि कथ्यते दूरापाघ्रपङ्कप्रसारणात्। विमः-अङ्गहारः पता मुष्टिसहितौ हतgधा च पादयोः । दक्षिणस्सरणाकारो वामस्यतु स्वभावकः । एवं प्रकारनटनं विक्रमः प्रथमो भवेत्। ललितं चरणं भूयासमष्टिस्तदा भवेत् । इत्यादिनटनं कुर्याद्विक्रमस्य द्वितीयके। पद्भ्यां तत्र कळयेत्समोसारितमण्डलम्॥