पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
भरतचरिते


नगरीं व्रज सम्पदाश्रया-
 मचलोत्सङ्गविहारिणी सती ।
त्वमवाप्तकुमारसंभवा
 भज गौरीव तमीश्वरं पतिम् ॥ २ ॥

विनयेन लभेत नीतिमा-
 न्नृपसूनुर्युवराजतामयम् |
विनिहन्त्यतिरागलोलुपः
 कुलमारण्य इवाग्निरुत्थितः ॥ ३ ॥

मदरागपरो नृपात्मजः
 पितुराच्छेत्तुमपीच्छति श्रियम् ।
कथमामिषमग्रतः स्थितं
 चपलस्त्यक्ष्यति सिंहशाबकः ॥ ४ ॥

अतिरक्तमनर्थकारिणं
 तनुजन्मानमुपेक्षितोन्नतिम् ।
अचिरेण हिनस्ति शस्त्रवान्
 पिटकं दुष्टमिव क्षितीश्वरः ॥ ५ ॥

अवमानकृशानुतापितं
 तनयाष्टापदमिष्टमात्मनः ।
भुवि कञ्चन रत्नभाजनं
 कुरुते साधु परीक्ष्य भूपतिः ॥ ६ ॥

अपि दृप्तनर्थकारणं
 वृषभं दुष्टमिवात्मजं नृपः ।