न विमुञ्चति योजयत्यमुं
बहुश: क्लेशकरेषु कर्मसु ॥ ७ ॥
यदि मुञ्चति किञ्चिदीदृशं
स हि मन्त्रैरविचिन्त्यश [१]क्तिभिः ।
नृपभोग[२]विषेण मूर्च्छितं
परमुत्थापयितुं समीहते ॥ ८ ॥
अहिरेव हि रत्नशालिभि-
र्नृपसूनुर्नियमेन रक्ष्यते ।
यदि विन्दति रन्ध्रमेकदा
सहसा हन्ति फणीव रक्षिणम् ॥ ९ ॥
तदसौ पितुरेव शासनं
वहतां मूर्ध्नि विनीतमानसः ।
नृपमौलिनवाडरश्रियः
कुशलं बीजमिवैकमर्पितम् ॥ १० ॥
न पुनस्स्वयमर्थयेदसौ
नृपनिर्बन्धमृते नृपश्रियम् ।
नहि कालविपाकवर्जितं
फलमास्वाद्यतमं भविष्यति ॥ ११ ॥
त्वमपि प्रियसंपदर्थिनी
भव मा गाः सुतसंपदि त्वराम् ।
पतनाय भवत्यपक्षतेः
शुकपोतस्य समुत्पतिष्णुता ॥ १२ ॥