पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
भरतचरिते


महिषीमपि नैव विश्वसेत्
 तनयैश्वर्यवशान्नरेश्वरः ।
हृदयं परिशोध्य विश्वसे-
 दथवा ग्राहवती नदीमिव ॥ १३ ॥

चिकुरे मुकुरे गृहोदरे
 शयने वा महिषीं महीपतिः ।
भुजगीमिव गेहवर्तिनीं
 सुतनिघ्नां न विशङ्कते कथम् ॥ १४ ॥

भुवि सन्ति तथाविधाः स्त्रिय
 स्तनयैश्वर्यविमूढचेतसः ।
परिणेतरि पापवृत्तयः
 कृपणानां हि मलीमसाः श्रि[१]यः ॥ १५ ॥

त्वमतः प्रणिधानशालिनी
 कुरु भतर्हितमात्मनो हितम् ।
स च वेत्ति तवेङ्गितैर्मनः
 सुरसिन्धोरिव वारि निर्मलम् ॥ १६ ॥

परिलालय राजवल्लभान्
 नृपविद्वेषिषु मा कृथाः प्रियम् ।
शिवमाचर तस्य सन्ततं
 नहि कल्याणकृतां विपत्तयः ॥ १७ ॥

युवयोर्नयतत्त्ववेदिनोः
 समये स्मारयितुं मयोदितम् ।


  1. 'स्त्रि क. ख. पाठः.