निपुणोऽपि जनः क्रियाकुलः
प्रकृतेः[१] कर्मणि को न मुह्यति ॥ १८ ॥
हृदयेन वहन्नपि[२] प्रियां
भवतीं रत्नमयीमिव स्रजम् ।
नृपतिर्मम शासनेच्छया
पुरुषान् प्रेषयितुं विलम्बते ॥ १९ ॥
इति वास्मदनुग्रहान्मुहु
र्महिमानं लभतामयं सुतः ।
हिमरश्मिकरादिवार्णवः
पवमानादिव दावपावकः ॥ २० ॥
अथवा जनवादशङ्कया
त्वयि दैवीं गिरमर्थयत्यसौ ।
अविवेकति[३]रस्कृतात्मनां[४]
पिशुनानां खलु दुःश्रवं वचः ॥ २१ ॥
तदिह स्मर नित्यवत्सलां
त्वयि माध्वीमुचितानुवर्तिनीम् ।
ससुतां भवतीं विहायसा
खगमा सा शिबिकेव नेष्यति ॥ २२ ॥
इति सा मुनिना समीरिता
घनबाष्पाम्बुविकुण्ठितस्वरा ।