त्वमिमां क्षितिभर्तुरन्तिकं
नय सन्तानलतामिवेप्सिताम् ॥ ३४ ॥
सच मद्रचनादिदं त्वया
विजने व्यक्तमुदीर्यतां वचः ।
नहि संसदि नीतिशालिभि-
र्निजकार्ये विनियुज्यते प्रभुः ॥ ३५ ॥
इयमस्मदुपाश्रयावधू-
स्तव दिष्ट्या महिषी किलाभवत् ।
अधुना तव सद्म नीयते
मुनिषु न्यास इवार्पिता त्वया ॥ ३६ ॥
इदमेकमिहार्थ्यते भवा-
नपहास्या न भवेदियं जनैः ।
प्रभुचित्तमजानती स्वयं
नृपमेनं वृतवत्यसाविति ॥ ३७ ॥
अथवा सकलस्य रक्षितु-
स्तव दारेषु किमुच्यते मया ।
पितुराकुलमेव सन्ततं
दुहितृस्नेहमयं हि मानसम् ॥ ३८ ॥
न च वेत्सि न वक्तुमीदृशं
न तवान्या ससुता शकुन्तला ।
तदुदीरय पथ्यमेतयो-
रुचितं वा नृपसन्निधिं गता ॥ ३९ ॥