इति तां कथयन्मुनिः स्वयं
क्षणमात्राम्बुनिरुद्धवागभूत् ।
अरुदत् सुतरां शकुन्तला
रुदितप्राय इवाश्रमोऽप्यभूत् ॥ ४० ॥
अथ तन्मुनिशासनं दधौ
गुरु भाध्वी च तथेति वादिनी ।
कुसुमं सुरवल्लरीव सा
फलजन्मानुगुणं दिवौकसाम् ॥ ४१ ॥
परिगृह्य भुजे शकुन्तला-
मथ दुःषन्तसुतं भुजान्तरे ।
तमुत्पतिता सुराङ्गना
दिवि हंसीव गृहीतपोतका ॥ ४२ ॥
मरुतानुगुणेन गच्छतां
दिवि तेषां घनमण्डलं घनम् ।
कृतमातपवारणं मह [१]-
न्मणिदण्डीकृतशक्रकार्मुकम् ॥ ४३ ॥
मणिहर्म्यकरैरुदञ्चितैः
श्रियमाकष्टुमिवोद्यतां दिवः ।
अचिरादिव ते नभस्स्थला-
दवतेरुर्नगरी नरेशितुः ॥ ४४ ॥
अथ कञ्चुकिभिर्निवेदिताः
कनकस्तम्भसहस्रकेसरम् ।