परिणीय तपोवने त्वया
नवगर्भा निहिता शकुन्तला ।
अथ केसरिणीव वीरसूः
सुतमेनं सुषुवे सुमध्यमा ॥ ५१ ॥
तदसौ तव सुनुरिष्यतां
तव चै[१]षा महिषी शकुन्तला
इह कण्वनियुक्तया मया
त्वदुपान्तं विपिनादवापितौ ॥ ५२ ॥
इति साहितसारमेतयो-
र्मुनिसन्दिष्टमुदीर्य भूभुजे।
विरराम गिरामविस्तरः
प्रभुतन्त्रे हि नितान्तमिष्यते ॥ ५३ ॥
प्रियदारसुतावलोकना-
दलमन्तर्हषितोऽपि पार्थिवः ।
पिदधे जनवादशङ्कया
विकृ(ति ? तिं) छद्मकृतामिव श्रियम् ॥ ५४ ॥
प्रतिकूलमिवोपचक्रमे
प्रतिवक्तुं परिशोधयन् प्रियाम् ।
कनकस्य हि[२] शुद्धिरिष्यते
दहनच्छेदनिकाषलक्षणा ॥ ५५ ॥
मुनयः खलु सत्यवादिनः
त्वमपि प्रत्ययिता तथाप्यहम् ।