न च वेद्मि मया कृतं कुतः
स्व[१]कृतं कः प्रतिबोध्यते परैः ॥ ५६ ॥
बहुकैतव कोविदाः स्त्रियो
नहि तासामवशः पुमान् भुवि ।
इति मास्तु मदाश्रया कथा
विकलङ्काः खलु पौरवेन्दवः ॥ ५७ ॥
इह भव्यसुता समागता
वनिता रूपवती कुतश्चन ।
अधुना महिषी नृपस्य से-
त्ययशो नूतनमातनोमि किम् ॥ ५८ ॥
अथ तस्य गिरं सुराङ्गना
द्विपरामन्यपरा च संवृ[२]तिम्
अवधार्य तथैव सावद-
न्मतिरेका हि मनीषिणां मिथः ॥ ५९ ॥
स्वयमाचरितं न वेत्सि चेत्
परवृत्तान्तपरीक्षया कृतम् ।
ननु चारदृशा महीतलं
सकलं पश्यति यः स पार्थिवः ॥ ६० ॥
इदमद्भुतमद्भुताद्भुतं
भवता यद् प्रियते वसुन्धरा ।
अथ कीर्त्तिरतति[३]भूमुजा-
मिह राज्ञीव मुनक्ति भूतलम् ॥ ६१ ॥