अवनेरवने हि लाघवं
भवता भव्याधिया विभावितम् ।
अवधानमृतेऽपि यद् द्विषां
शिरसि स्थापितमात्मना पदम् ॥ ६२ ॥
न भवानिव पार्थिवो ऽभव-
न्न भविष्यत्यधुना न वर्तते ।
यदसौ तव सत्यवादिता
यदिदं बुद्ध्यवधानमीदृशम् ॥ ६३ ॥
धनमर्थयते शकुन्तला
यदि हेमाचलशृङ्गसम्मितम् ।
घनदादपि हर्तुमीश्वर-
स्तनयोऽस्याः सशरं वहन् धनुः ॥ ६४ ॥
इति धीरमुदीरितस्तया
नृपतिर्ध्यान निमीलितंक्षणः ।
सुखसुप्त इवाभवत् क्षणं
दयितापत्यसमागमोत्स[१]वे ॥ ६५ ॥
अशृणोदशरीरिणीं गिरं
जनसन्तापहरां जनाधिपः ।
घनघोषमनोहरस्वरां
नभसो वृष्टिमिवाथ तां नवाम् ॥ ६६ ॥
प्रतिबिम्बमिवात्मसम्भवं
निजसादृश्यघरं महीपते ! ।