बिभृहि त्वममुं कुलाङ्कुरं
तव सत्यं महिषी शकुन्तला ॥ ६७ ॥
इति नाकमद्मनि विजृम्भितां गिरं
नृपतिनिशम्य परिषस्वजे सुतम् ।
मुमुदे च मूर्ध्नि मुखमर्पयन् मुहुः
क्षितिभारविश्रमसुखादिवात्मजे ॥ ६८ ॥
|
इति कृष्णविरचित भरतचरिते नवमः सर्गः ॥
अथ नाम्ना सुतं चक्रे भरणाद् भरतं नृपः ।
किन्नरीव यशो यस्य वाणी गायत्यकृत्रिमा ॥ १ ॥
शङ्खचक्राङ्कितकरं स सूनुं दै[१]त्यसूदनम् ।
उपेन्द्रमिव देवेन्द्रो यौवराज्ये ऽभिषिक्तवान् ॥ २ ॥
सर्वसंभारसंभिन्नैरम्भोभिर्गलितैरधः ।
भर्त्रा सहाभिषिक्तेव विरराज वसुन्धरा ॥ ३ ॥
नूनं यूनि कृतोत्कण्ठा तस्मिन् गूढमुपाश्रिता |
अभिषेकाम्बुभिः स्प[२]ष्टा राजलक्ष्मीरलक्ष्यत ॥ ४ ॥
बिभ्राणः शिरसा मौलिं युवराजो रराज सः ।
उदयाद्रिरिवोत्तुङ्गशृङ्गोल्लसितभास्करः ॥ ५ ॥
विचित्र[३]रत्नकटको हारपाण्डरनिर्झरः ।
लोकपालाश्रयः श्रीमानसौ मेरुरिवाबभौ ॥ ६ ॥
कर्णपाशद्वयी तस्य बभौ समणिकुण्डला ।
आबद्धरत्नफलका दोलेव वदनश्रियः ॥ ७ ॥
|
- ↑ 'देवनन्दनम्',
- ↑ 'स्पू',
- ↑ 'त्रचित्रक' ग. पाठः.