इत्थमुत्थानमावेध स्वयत्तस्थुषः प्रभोः ।
प्रणम्य मन्त्रिणस्तस्थुः पिद्धा इव हरेः पुरः ॥ ७४ ॥
सम्भाव्य भारतीं तेषां बभाषे भरतस्तदा ।
विज्ञापनाभिमुख्यं हि स्वामिनः प्रेमलक्षणम् ॥ ७५ ॥
हितं च मधुरं चेह यद् भवद्भिरुदीरितम् ।
प्रीत्या मया गृहतिं तन्मधुमिश्रमिवोषधम् ॥ ७६ ॥
प्रसिद्धमपि वक्तव्यं सचिवैः कालवेदिभिः ।
घिषणस्यापि धिषणा तत्र व्यग्रस्य मुह्यति ॥ ७७ ॥
नीतिमानपि न स्वामी विनामात्यैरुद्वेष्यति ।
नह्यनाघोरणो हस्ती शिक्षितोऽपि रणक्षणः ॥ ७८ ॥
हेतिमात्रेण मित्रेण काष्ठान्तेषु चराम्यहम् ।
अनुयान्तु भवन्तो मां कृशानुमिव मारुताः ॥ ७९ ॥
वीरः श्रवःसुखमुदारमुदीर्य वाक्यं
प्रातः प्रयाणमिति घोषयति स्म भेरीम् ।
सा घोषणा घनघटेव विजृम्भमाणा
वृष्टि शशंस शरजालमयी भवित्रीम् ॥ ८ ० ॥
|
इति कृष्णविरचितं भरतचरिते दशमः सर्गः ॥
अथ दिशां विजयाय विशांपतिः
स नगरान्निरगादरिमर्दनः ।
बलभरेण घनं परिमर्दयन्
प्रणयिनी प्रमदामिव मेदिनीम् ॥ १॥
|