पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
एकादशः सर्गः ।

समुदयः प्रथितोज्ज्वलतेजसो
 भवति तां दिशमेत्य वेरिव ॥ ७ ॥

तुरङ्गतरङ्गसुदुस्तरः
 पृथुमतङ्गजपोतशताकुलः
सपदि राजनि मार्गमुपेयुषि
 क्षितितलं प्रससार बलार्णवः ॥ ८ ॥

पथि मृदु प्रतिरोधकृतागतां
 द्विरदखण्डितवप्रसुखाक्रमम् ।
क्षितिभृतां कटकं परिमर्दयन्
 धनमनर्धमवा[१]प्य पुनर्ययौ ॥ ९ ॥

तदनु मानवलेन निरुन्धतीं
 प्रणयिनीमिव पूर्वदिगङ्गनाम् ।
तनुविमर्दवशादनुकूलयन्
 विविधभोगकरीमकरोन्नृपः ॥ १० ॥

चटुलतालदलाङ्गुलिविभ्रमै
 र्जलतरङ्गमृदङ्गरवानुगैः ।
ललितनृत्तमित्रास्य वितन्वती-
 मुदधिपारभुवं भरतो ययौ ॥ ११ ॥

उपनतामनुरागवशांत् स्वयं
 न कलहेन चिराय पराङ्मुखीम् ।
अनुबभूव स सुह्यपतेः श्रियं
 नववधूमिव नातिसमुद्धता [२]म् ॥ १२ ॥


  1. ’पास्य’,
  2. 'तम् ।' ग. पाठ:.