यवनसैन्यममन्यत दुर्जयं
निजधनुर्नमनेन विना नृपः ।
न खलु द[१]ग्धुमृते बडवानलं[२]
प्रभवति प्रसभं पयसां निधिम् ॥ ४० ॥
न हि शराः किल केवलमाशुगाः
प्रहरता भरतेन समर्थिताः ।
युधि गताः प्रसभं हतशेषता-
मसुहृदोऽपि भयेन यदाशुगाः ॥ ४१ ॥
करमवाप नृपो यवनाधिपा-
दमयमात्मपदं च ददौ स्वयम् ।
उपकृतो (पि ? हि) महानुपकारिणा-
मुपकरोति पुनर्द्विगुणोदयम् ॥ ४२ ॥
मधुरसावनभूषु निषेदिवा-
नजिनकम्बलरत्नवतीषु सः ।
अनुबभूव ज[३]यश्रियमूर्जितां
घ[४]नरसार्द्रहिमाम्बुह्रतश्रमः ॥ ४३ ॥
अथ दिशं द्रविणेशवशीकृता-
मभिजगाम जयाय जनाधिपः ।
क्षितिभृतां कटकं पथि मर्दयन्
वनकरीव बलं महदाश्रितः ॥ ४४ ॥
मथितसिन्धुपतिर्जगृहे श्रियं
मणितुरङ्गमरत्नपुरस्कृताम् ।