पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


भ्रमितभूमिभृदेष महीपतिः
 स भगवानिव चक्रधरः स्वयम् ॥ ४५ ॥

तदनु हूणगणाधिकृतान्नृपः
 पुरवरावलिप्तमहाभटात् ।
अहरदेव स सारमनुद्धृता-
 दहिकुलाकुलितादिव चन्दनात् ॥ ४६॥

रथतुरङ्गखुराग्रविमर्दितः
 सपदि कुङ्कुमरेणुरराजत ।
नृपतितिग्मरुचेस्तपतः परान्
 गगनवर्त्मनि बाल इवातपः ॥ ४७ ॥

तदनु जङ्गमभूमिभृतां पति-
 र्गिरिमजङ्गमभूमिभृतां पतिम् ।
समतयेव समाचितमत्सरो
 बलभरेण रुरोध जिगीषया ॥ ४८ ॥

द्विरदशृङ्खलया दलितत्वचः
 प्रमथिताः किल भूर्जमहीरुहः ।
विधुतपल्लवपाणिपुटैरलं
 क्षतरुजेव चिराय चकम्पिरे ॥ ४९ ॥

क्षितिभृतः क्षितिभृत्पतिमाश्रिताः
 शरमुचे भरताय करं ददुः ।
न खलु तुङ्गसमाश्रयणं नृणां
 तदधिके परिपन्थिनि साधनम् ॥ ५० ॥