स मातलिस्तं रथमन्तरिक्षे
निवेशयामास नियम्य वाहान् ॥ १० ॥
विद्योतमानः स मणिप्रभाभि-
र्विधुद्धिरम्भोद इव स्थिराभिः ।
अग्रे नरेन्द्रस्य सुरेन्द्रसूतः
प्रतोदपाणिः प्रणतोऽवतस्थे ॥ ११ ॥
पाद्यासनाद्यैः स्वयमेव राजा
सम्भावयामास महेन्द्रसूतम् ।
प्रायः प्रभूणामनुजीविनोऽपि
श्लाघ्याधिकारेण भवन्ति मान्याः ॥ १२ ॥
आनन्दसिन्धुस्नपनेन शुद्धा
मन्दस्मितक्षौमपटं वसाना ।
दन्तच्छदश्रीनवकुङ्कुमार्द्रा
वाणी मुखेन्दोर्नृपतेरुदस्थात् ॥ १३ ॥
प्रष्टुं न युक्तं कुशलं मघोनः
सम्भाव्यमन्यत् किमिवेश्वराणाम् ।
अथ प्रतापादिषु तस्य दैत्याः
स्वोच्छेदमिच्छन्ति पतङ्गवृत्त्या ॥ १४ ॥
मन्ये तवाभ्यागमनं महार्थ-
मनुग्रहायैव परं कृतं नः ।
अथात्मदत्तां हरिरस्त्रशिक्षां
दैत्योपमर्देषु दिदृक्षते नः ॥ १५ ॥