तं मातलिः प्रत्यवदन्नरेन्द्रं
सारं समाहत्य सुरेन्द्र कार्यम् ।
प्रभूतमर्थं प्रभवन्ति वक्तु-
मल्पाक्षरैरेव पदैर्महान्तः ॥ १६ ॥
नित्यावलि तैः समरेषु दैत्यैः
पाताननादृत्य शिलीमुखानाम् ।
आकृष्टपद्मा नलिनीव नागै-
रालोड्यते तैर्नगरी सुराणाम् ॥ १७ ॥
अतस्त्वया दैत्यजयाय जिष्णोः
साह्यं विधेयं दनुजद्विषेव ।
न नन्दको विद्विषतामसिस्ते
नाम्नापि शैरिरियती भिदा ते ॥ १८ ॥
तथेति राज्ये सचिवान् निधाय
निश्शब्दपातं रथमन्तरिक्षे ।
आलम्ब्य चापं स गृहीत चक्रो
हरिर्गरुत्मन्तमिवारुरोह ॥ १९ ॥
उत्कण्ठया यातुमनेन सार्धं
यावत् कटाक्षाः पुरसुन्दरीणाम् ।
उत्पेतुरार्द्राः क्षणमुत्पलाभा-
स्तावद् रथं मातलिरुन्निनाय ॥ २० ॥
अथ प्रतिष्ठानपुराङ्गनाना-
मपाङ्गयष्टिं स विलङ्घय राजा ।