तमयपाद्यादिभिरर्चयित्वा
निजासनार्धे विनिवेश्य शक्रः ।
आश्लिष्टमालोक्य यथा ननन्द
सद्यः प्रसूतं न तथा जयन्तम् ॥ २७ ॥
अगाधसत्त्वोऽपि हरिर्बभूव
नरेन्द्रचन्द्रं प्रतिपद्य लोलः ।
आनन्दविभ्रान्तसहस्रनेत्रः
संभ्रान्तपाठीन इवाम्बुराशिः ॥ २८ ॥
आपीतशिष्टाममृतस्य धारा-
मार्द्रस्मितव्याजवतीं विधाय ।
सुखोपविष्टं निजविष्टरार्धे
त्रिविष्टपेन्द्रः पृथिवीन्द्रमूचे ॥ २९ ॥
प्रेयस्तवाभ्यागमनं ममेति
वक्तुं न साक्षात् स्वजनेषु युक्तम् ।
आचारमात्रेण तु वाच्यमेव
पुत्रेऽपि नूनं गृहमभ्युपेते ॥ ३० ॥
निहत्य दैत्यानमरैरवध्यान्
दिवं भवान् भूमिगतो भुनक्ति ।
स्वस्था वयं केवलमाज्ञयैव
बिभर्षि लोकद्वितयं यतस्त्वम् ॥ ३१ ॥
ह[१]तावशिष्टाः समरे त्वया ये
स्वपक्षमुत्थाप्य समुत्पतन्तः ।