वाग्निभीता इव खे[१]चरास्ते
भूमेर्दिवं प्राप्य चरन्ति दैत्याः ॥ ३२ ॥
लब्धाश्रयास्ते द्रुहिणप्रसादाद्
देवानभिद्रोग्धुममी यतन्ते ।
वन्यद्रुमोत्थाः खलु हव्यवाहाः
स्वोत्पत्तिवृक्षान् प्रथमं दहन्ति ॥ ३३ ॥
अंशावतारोऽसि हि दैत्यशत्रो-
दैत्यानतस्तान् निहनिष्यसि त्वम् ।
को नाम दग्धुं क्षमते पयोधी-
नुषर्बुधं बाडवमन्तरेण ॥ ३४ ॥
इत्युक्तवन्तं भरतो बभाषे
तवा[२]नुभावादसुरान् निहन्मि ।
न हन्ति शातोऽपि शरः सपत्नान्
धनुर्भूतः प्रेरणमन्तरेण ॥ ३५ ॥
गोप्ताय लोकस्य स दीप्तहेतिः
परान् प्रतापैः परितापयिष्यन् ।
हरेर्नियन्त्रा हरिभिर्निबद्धं
हरिः स्वयं वा रथ[३]मारुरोह ॥ ३६॥
नागेन्द्रमारुह्य नगेन्द्रकल्पं
नरेमिन्द्रन्द्रः स्वयमन्वगच्छत् ।
अन्वीयमानः सुमनः समूहै-
र्दीप्तं नभस्वानिव दाववह्निम् ॥ ३७ ॥