गर्जन्तमुञ्चैर्दिवि कालरूपं
द्विधाकृताखण्डलचापदण्ड[१]म् |
घनं घनानामिव दानवानां
सङ्घ तभेते ददृशुः सुरौघाः ॥ ३८ ॥
अथासुराणां मरुतां च तेषा-
मभूद[२]पूर्वो दिवि संप्रहारः |
अन्योन्यभङ्गप्रतिभङ्गभीमः
कल्पान्तभाजामिव सागराणाम् ॥ ३९ ॥
अङ्गानि चत्वारि मिथो यथास्वं
द्वन्द्वीबभूवुः समरेषु तेषाम् ।
बलानि तुङ्गान्यथवा कुलानि
मिथः समानः सततं घटन्ते ॥ ४० ॥
परस्परज्याघनघोषमिश्रा
बभूव वृष्टिः शरपातरूपा ।
प्रवर्तयामास च सा भटाना-
मङ्गेषु तेषां रुधि [३]रस्रव[४]न्तीम् ॥ ४१ ॥
गुणानुविद्यापि धनुर्धराणां
दोषानुविद्धा विशिखावली सा ।
सपक्षपातापि विपक्षपाता
तीक्ष्णापि तेषां हृदयङ्गमाभूत् ॥ ४२ ॥
प्रयोगसंहारपरम्परासु
निवर्तनावर्तनघट्टितानि ।