चिह्नन संख्यातुमिवैष दैत्यान्
प्रत्येकमेतान् विशिखैर्जधान ॥ ५४ ॥
छिन्नैः शिरोभिर्दितिनन्दनानां
छन्ना रणक्षोणिरकारि राज्ञा ।
मधुद्रवामोदित भीमवक्त्रै-
र्मृत्योः कपालैरिव कीर्यभाणा ॥ ५५ ॥
संहत्य दैत्याः परिवेष्टय पत्रै-
रेनं निजघ्नुर्निशितैः पृषत्कैः ।
रराज सोऽपि क्षतजोक्षिताङ्ग
सन्ध्याघनच्छन्न इवोष्णरश्मिः ॥ ५६ ॥
अथ क्षणो[१]दस्तशिलीमुखोऽसौ
निकृत्तपद्मानन[२]वीतशोभान् ।
कबन्धशेषान् दितिजानसंख्यान्
पद्माकरान् वन्यकरीव चक्रे ॥ ५७ ॥
अन्यानिषून्मुञ्चत एव दैत्यान्
निकृत्तकण्ठानकरोन्नरेन्द्रः ।
ते संपतन्तो मुमुचुः पुरस्तात्
प्राणानि[३]षून् वा किसु सिंहनादान् ॥ ५८ ॥
एकेन मूर्धा नृपबाणलूनः
पश्चान्निरस्तः सहसा करा[४]भ्याम् ।
मानं दधानेन पुरः प्रपाता-
दाशङ्कमानेन रिपौ प्रणामम् ॥ ५९ ॥