पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
भरतचरिते


अथानिलैरश्मरजोम्बुगर्भै-
 र्मायामयैस्तं दितिजाः प्रजह्रुः ।
अपाहरत् तान् निखिलान् नृपोऽस्खै-
 रुस्त्रैः सहस्रांशुरिवान्धकारान् ॥ ६० ॥

निर्मुक्त पत्रिप्रकरानुदग्रान्
 वेगं शराणां प्रविधाय भूयः ।
निष्पत्रतामेष निनाय शत्रू-
 नारण्यवृक्षानिव दाववह्निः ॥ ६१ ॥

छिन्नायुधारिछन्नपरिच्छवास्ते
 सन्ना बभूवुर्भरतेन दैत्याः ।
कोदण्डपाणिस्तमृते न कश्चि-
 च्छ[] त्रून् नियन्तुं खलु दुर्विनीतान् ॥ ६२ ॥

ब्रह्मास्त्र[]मुख्यानि महास्त्रजाला-
 न्यस्मै सरोषं ससृजुः सपत्नाः ।
अस्त्रैः स तैरेव रुरोध तानि
 []होन्तराणीव महोभिरर्कः ॥ ६३ ॥

स कण्टकान् दानववंशजातान्
 पीडाकरानैन्द्रपदे नितान्तम् ।
उद्धृत्य शस्त्रैरविषह्यपातान्
 युद्धस्य पारं भरतो जगाम ॥ ६४ ॥

मुक्तानि तस्मिन् पुरसुन्दरीभि-
 र्मन्दारमाल्यानि मनोहराणि ।


  1. 'ज्जन्तुर्निय' ग. पाठः.
  2. 'दिपैशाचकृतावसानान्यस्त्राण्य[थस्मै दितिजः ससर्ज ।'
  3. 'तेजोन्तराणीव निजैर्विवस्वान्' क. पाठ:.