पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
भरतचरिते.


आयाति याति द्रुतमुच्चिनोति
 तृणानि काष्ठानि जहाति भूयः ।
अनर्थकानेष तनोति शब्दा-
 नुद्वेलमुन्मत्त इवाम्बुराशिः ॥ ७१ ॥

और्वाग्निसन्तापमलीमसोऽपि
 निर्घातवातैः परुषीकृतोऽपि ।
अगस्त्यपीतक्कथितोज्झितोऽपि
 न जातु लावण्यमसौ जहाति ॥ ७२ ॥

आकृष्टशार्ङ्गः श्रितशङ्खचक्रः
 सारं मणीनां हृदये दधानः ।
अमेयमन्तर्भुवनं दधानो
 नारायणस्यानुकरोति चिह्नम् ॥ ७३ ॥

अस्यानुतीरं कलहंंसमाला
 वेलातरङ्गेषु विगाहमाना ।
मुक्ताङ्कुराग्रं दशति प्ररूढ-
 मच्छं बिसच्छेदविशङ्कयेव ॥ ७४ ॥

न क्षीयते वाडवहिनासौ
 न वर्धते प्रावृषि निम्नगाभिः ।
सत्त्वाधिकाः सत्स्वपि कारणेषु
 नूनं महान्तो नहि विक्रियन्ते ॥ ७५ ॥

जलाशयोऽसौ न विचारशून्यः
 सुधाकरो न क्षयमेति भूयः ।