पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
द्वादशः सर्गः


भङ्गाकुलात्मा न विलध्यतेऽन्यैः
 प्रमाणहीनो न जनैरद्द[]श्यः ॥ ७६ ॥

अमुष्य वीचीनिचयैरुदस्तं
 निपीय पाथो लवणं पयोधेः ।
गुहामुखैः सोढुमशक्नुवन्तः
 सद्यो वमन्तीव तटान्तशैलाः ॥ ७७ ॥

सरित्प्रवाहोल्ब[]णशृङ्खलाभि-
 र्वैलाचलालाननियन्त्रिताङ्गः ।
नमत्यसावुन्नमति क्षणेन
 वारांनिधिर्मत्त इव डिपेन्द्रः ॥ ७८ ॥

अमानभूमिर्बहुमानभूमिं
 सदा शयालुः सततं प्रबुद्धम् ।
अमुं प्रजानामविशेषबन्धुं
 विशेषबन्धुः पुरुषोऽधिशेते ॥ ७९ ॥

अमुष्य कुक्षौ भुवनानि कृत्वा
 निक्षिप्य नाभीकमले निषण्णः ।
पुनस्तदादित्सुरिवाब्जयोनिः
 साम्ना मुहुः स्तौति तमेव देवम् ॥ ८० ॥

अत्रार्णवे श्यामलवर्णकान्तिः
 शेषे शयानः कमलासहायः ।
कालाम्बुवाहः कलधौतशैले
 विद्युल्लताश्लिष्ट इवावभाति ॥ ८१ ॥


  1. (शृङ्ग्य: ? शङ्कयः),
  2. 'ज्ज्वलशृ' ग. पाठः.