भुजङ्गभीमेन भुजेन यस्य
चिरं धृता वैरिषु [१] भीषणेन ।
धनुर्गुणाकर्षणरञ्जितश्री-
र्मही समुद्राभरणाङ्गुलीव ॥ ३२ ॥
भूपारिजातं प्रथमं विजित्य
स्थानं तदीयं पुनराददानः |
आपूरयन्नर्थिजनस्य वाञ्छां
भूपारिजातत्वमयात् स्वयं यः॥ ३३ ॥
प्रारम्भणात् प्राकू प्रणतेर्गतर्वा
धनुः शरो वा स्वयमेव यस्य ।
आचा[२]र्यकं चक्रतुराजिरङ्गे
प्रणामभाजामपि वेगभाजाम् ॥ ३४ ॥
यस्य श्रियं वीक्ष्य पुरन्दरोऽपि
लघीयसी मत्पदवीति तप्तः ।
अक्ष्णां सहस्रा[३]दपि कालवर्ष-
व्याजेन बाष्पाम्बु सुमोच भूमौ ॥ ३५ ॥
धर्मोऽपि मोक्षप्रवणस्य साक्षा-
दर्थो यशः सञ्चयमुच्चिचीषोः ।
कामः प्रजोत्पत्तिपरस्य चेति
यस्यानुनिष्पत्तिरभूत् त्रिवर्गः[४] ॥ ३६ ॥
अन्तर्हितं कारणमङ्गवृद्धे-
राप्तैः कृतं सुश्रुतशास्त्रशौण्डैः ।