स्फीताङ्गवर्गोऽपि विपाकरम्यं
दुधार यो मन्त्रमयं कषायम् ॥ ३७ ॥
अष्टापदैर्यो गिरिशृङ्गकल्पै-
र्दानाम्बुसिक्तैर्ज[१]यकुञ्जरैश्च ।
आपूरयामास नितान्तमाशा-
श्चकेऽर्थिनां वाथ[२] वसुन्धरायाः ॥ ३८ ॥
पातालमाप्तो भुवि पूरिताशः
कल्पद्रुमाणां पदवीमतीतः ।
निरन्तरं शौरिपदावलम्बी
यः स्वो यशोराशिरिवाबभासे ॥ ३९ ॥
अस्पृष्टशस्त्रेण जिता बलौघा
न केवलं येन पुरन्दरोऽपि ।
यदायुधानां शतकोटिमेकं
बलं विजेतुं स सुमोच भूयः ॥ ४० ॥
यस्मिन् महीं शासति सागरेषु
भङ्गो विषादः शिखिमण्डलेषु |
आर्तिप्रवेशो धनुषां गुणेषु
यात्रासु दूष्योद्धरणं बभूव ॥ ४१ ॥
ऋक्ष्वेव मन्त्रप्रसरो बभूव
वृत्तं यजुःष्वेव निवृत्तमासीत् ।
उपद्रवः सामसु नापरत्र
यत्र क्षितित्राणपरे बभूव ॥ ४२ ॥