यो बारिराशिप्रशमैकहेतु-
र्यो वा सहेतिः परतापहेतुः ।
यो वाशु काष्ठा[१]र्जितभूरिभूति-
रकृष्णवर्त्मेति मृषा स्तुतोऽभूत् ॥ ४३ ॥
रत्नाकरः सत्त्वविशेषशाली
सहस्रभोगो वसुधां दधानः ।
वित्तेश्वरः पुण्यजनानुयायी
पद्मोद्भवो यश्चतुराननोऽभूत् ॥ ४४ ॥
दुर्गानपेक्षोऽपि शिवानुयातः
कीर्त्तिं दधानोऽप्यजलाधिवासः ।
विशुद्धवृत्तोऽपि च कृष्णकर्मा
यः स्थूललक्षोऽपि च सूक्ष्मवेधी ॥ ४५ ॥
निसर्गसारस्य निधानभूमिः
स्फुरद्गुणग्रामसुखोपसेव्यः ।
अलङ्कृत श्लोकनिमग्नलोको
यः काव्यबन्धश्रियमन्वगच्छत् ॥ ४६॥
सचापतूणिः स कदाचिदाज्ञां
जिज्ञासमानो नगरे नरेन्द्रः ।
चचार[२] रात्रौ भुवनैकवीरः
श्रिया व[३]पुष्मानिव पुष्पकेतुः ॥ ४७ ॥
ततः स राजा सुरनिम्नगायां
शुश्राव कोलाहल (म? मा)म्बु [४]पूरम् ।