न चक्षमे तं द्विरदेन्द्रशब्द-
मुद [१]दृप्तमुच्चैरिव केसरीन्द्रः ॥ ४८ ॥
अलोकयच्चित्ररथं ससार्थं
सहाप्सरोभिर्विहरन्तमप्सु ।
नृपः सयूथं[२] द्विपयूथनाथं
करेणुभिः सार्धमिव प्रविष्टम् ॥ ४९ ॥
शकप्रियोऽयं प्रमदासहायः
क्रीडापरश्चेति निवर्तमानम् ।
अरुन्ध गन्धर्वपतिर्नरेन्द्रं
भोगी गरुत्मन्तमिव प्रयान्तम् ॥ ५० ॥
उक्तश्र रोषादिति गर्वितेन
गन्धर्वनाथेन नरेन्द्रनाथः |
अकालसञ्चारक ! दुर्विनीत !
प्राणेषु नूनं विगतस्पृहोऽसि ॥ ५१ ॥
स्वच्छन्दमस्मासु रहो गतेषु
क्रीडाप्रवृत्तेषु घने निशीथे ।
कथं मनुष्यो निविशेत[३] मन्दः
स्वयं दि[४]वाभीत इवातपेषु ॥ ५२ ॥
इत्याददानं सशरं धनुस्तं
प्रत्युत्तरं भूमिपतिर्बभाषे |
सोढोऽसि पूर्वं व[५]निताश्रयत्वा-
दवध्यभावाच्च कुशीलवानाम् ॥ ५३ ॥