आपूरितः क्षोभविवृद्धसत्त्वः
सद्यो जजृम्भे जगतीशसिन्धुः ॥ ५९ ॥
अवोचदित्थं नरलोकपालः
सविस्मयोऽसौ सुरलोकपालम् ।
अधीश्वरं त्वां सकलस्य जन्तोः
कथं प्रहर्तुं प्रयते बिडौजः ! ॥ ६० ॥
इयं हि मां सां[१]शयिकं तनोति
प्रतीक्ष्यता ते प्रतिपक्ष[२]ता च ।
हविःस्रुचौ वा किमुपादीत
धनुःशरौ[३] वा किमयं भुजो मे ॥ ६१ ॥
इति ब्रुवन्तं बलभिद् बभाषे
सान्त्वं समन्तोरुपहासवादः ।
विपक्षभावं भजता मवेहि
महीभृतां मद्भिदुरं यथार्थम् ॥ ६२ ॥
तथासि चेन्निर्विशयः समीके
मच्चापमुक्तैर्विशिखैरुरस्तः
आस्रावयिष्यामि सुधां निपीतां
ययासि जैवातृकतां प्रपन्नः ॥ ६३ ॥
इतीरयित्वा नृपतिः पृषत्कै-
रापादचूडं निचखान शक्रम् ।
आपुङ्गमग्नैः स च तैर्विरेजे
वहन्निवाक्ष्णामपरं सहस्रम् ॥ ६४ ॥