ततस्तुराषाडपि गाढविद्धः
शिलीमुखेस्तस्य बिभेद् वक्ष
तैराहतः सोऽपि वि्घूर्णितोऽभूत्
कल्पान्तवातैरिव वारिराशिः ॥ ६५ ॥
अस्त्राण्यमर्षादथ योजयन्तं
निवार्य वास्तोष्पतिरेनमूचे
सर्वं मयेैतत् त्वदनुग्रहार्थं
प्रवर्तितं वृत्तमवेहि राजन् ! + ६६ ॥
समुद्रनिक्षिप्तमथोद्गतांशु
बलाहकच्छन्नमिवार्कबिम्बम् ।
तस्मै जगद्दर्शननामधेय-
मादर्शेरत्नं मघवा दिदेश ॥ ६७ ॥ ।
आह स्म चेदं यदि चेच्छसि त्वं
दूरस्थितं वस्तु तिरोहितं वा ।
दृश्यं तदस्मन्निखिलं तवास्तु
दृश्यो भव त्वं च॑ तथाविन ॥ ६८ ॥
अथ सकलमहीभृच्चक्रलक्ष्यप्रतापाः
श्रुतिसुखमनुभुय स्तोत्रबन्धं च सुराणाम् ।
दिवससुरनराणामीश्वराः स्फीतभासः .
प्रययुरुदयशैलं द्यां प्रतिष्ठानकं च ॥ ६९ ॥
|
इति कृष्णविरचिते भरतचरिते