प्रवर्तका यत्र महर्षयोऽभवन्
महीरुहाणामपि कर्मणामपि ॥ ६ ॥
कपालचर्मानलभस्मलाञ्छन:
मरित्कुरङ्गाचलभूगुहाश्रयः ।
अहीनवल्लीपरिणाहभूषण:
श्रिया स्वयं योऽनुचकार शूलिनम् ॥ ७ ॥
शरीरिणीं कान्तिमिवामृतयुतेः
सरोरुहाणामिव सारनिर्मितिम् ।
स कामसाम्राज्यकृतामिव श्रियं
ददर्श तस्मिन् नवयौवनां वधूम् ॥ ८ ॥
मुनीश्वरेणात्मसुतामिवादृतां
समुद्वहन्तीं कु[१]सुमानि कर्मणे ।
समुल्लसत्पल्लव कान्तिधारिणीं
तरुं समालम्ब्य लतामित्र स्थिताम् ॥ ९ ॥
उपेयुषीं यौवनमत्तकुञ्जरं
निरङ्कुशं[२] चेतसि कौतुकावहम् ।
विविक्तरोमावलिदानविस्रवं
समुन्नयन्तं कुचकुम्भमण्डलम् ॥ १० ॥
स्ववासपद्माश्रय एव पद्मभू-
स्तदीय किञ्जल्करजोमधुद्रवैः ।
विनिर्ममे तां सुतनोस्तनुं ध्रुवं
मुहुर्मुहुर्वीक्ष्य वपुःश्रियं श्रियः ॥ ११ ॥