विलोचनानन्दकरं शरीरिणा
निसर्गसौरभ्यविलोलषट्पदम् !
सुधामधुस्यन्दि तदीयमाननं
शशाङ्कबि (म्बा)म्बुजयोः (क्रि ? श्रि ) यं ययौ ॥
सदन्तमुक्ताधरविद्रुमोज्ज्वलं
महाधनं वैश्रवणाप्तवीक्षणम् ।
न केवलं पद्ममभूत् तदाननं
निधानपद्मं ह्यलकावलम्बनम् ॥ १३ ॥
शिखण्डिनस्ताण्डविनोऽपि चन्द्रका-
स्तदीय केशश्रियमाप्तुमक्षमाः ।
यतेत तामाप्तुमथापि चामरं
न कस्य बालत्वकृतं हि चापलम् ॥ १४ ॥
विभज्य बिम्बं शशिनः सलाञ्छनं
ललाटपट्टे ललितभ्रु कुर्वता
परार्धनीलाङ्कसुधार्द्रलोहितैः
कृतं तदक्षिद्वितयं नु वेधसा ॥ १५ ॥
तदीयगण्डस्थलरत्नदर्पणौ
क्रमेण वैशद्यविशेषमापतुः ।
प्रकीर्णकर्णोत्पलरेणुराजिभिः
प्रमृज्यमानाविव यौवनश्रिया ॥ १६ ॥
द्विजावलीं तन्मुखचन्द्रगामिना
विलोक्य गूढामिव जातमत्सरा ।