प्रतिष्ठितेऽन्तः सदृशे नरेश्वरे
विनिर्गतास्तत्क्षण एव कण्टकाः ।
द्विपेन्द्रहस्ताकृति चौर्यकातरं
मुहुस्तदुरुद्वितयं विकम्पितम् ॥ ३४ ॥
न वासरैर्न प्रहरेण केवलं
त्रिभिः क्षणैः पञ्चभिरेव वा[१] परैः ।
विनिर्ममे तामयथापुरं वधूं
नृपो नु मारो नु नवं नु यौवनम् ॥ ३५ ॥
विनिःसरन्तः स्पृहया मुहुर्मुहु
र्वधूकटाक्षास्त्रपया विवर्तिताः ।
अदृष्टपूर्वोऽयमपि श्रुतो भवे-
द्वितीय कर्णावनुयोक्तुमभ्य[२]युः ॥ ३६ ॥
समुत्सुकाः साहसिनो विनिर्गता
नरेन्द्रदृष्टिप्रतिघात[३]कुण्ठिताः ।
कटाक्षपा[४]ताः सुतनोस्तथापि ते
न त[५]स्य नासन् हृदयावभेदिनः ॥ ३७ ॥
तथा हि मन्ये सहसा सुशिक्षिता
कटाक्षसंज्ञाभिरनेन भूभुजा ।
यथाह्यनभ्यस्तचरेऽपि दक्षिणा[६]
बभूव सा मन्मथविभ्रमक्रमे ॥ ३८ ॥
अथ क्षितीशोऽपि वधूं विलोकयन्
विनिर्जिताशेषधनुर्धरः स्वयम् ।