कथं तपश्शोषितकामविभ्रमे
तपोवने जन्म लभेत मानिनी ।
दवानलोच्छोषितकुड्मले वने
कथं हि कल्पे[१]त शिरीषमञ्जरी ॥ ४५ ॥
इयं च न क्षत्रपथातिवर्तिनी
क्षमा मनः स्यन्दयितुं हि मादृशाम् ।
सरोजराजप्रतिमल्लविभ्रमा
शशाङ्करत्नं विमलेव चन्द्रिका ॥ ४६॥
स्तनावनुत्पीडितपीन कर्कशौ
न भुक्तमुक्तं दशनच्छदामृतम् ।
दृशौ च नोन्मृष्टपुटे मृगीदृशः
क्व यूनि पुण्यं महदद्य पच्यते ॥ ४७ ॥
इतीदृशीं तां शतधा विजृम्भितां
विकल्पमालां महतीं महीपतिः ।
अवाप मन्थाचलवातचञ्चलां
पयोधिरुल्लोलपरम्पराभिव ॥ ४८ ॥
अथ क्षितीशे क्षणमीलितेक्षणे
मणिः क्षणेनान्तरधीयत स्वयम् ।
मिथस्तयोस्तामनुरागसंपदं
निरीक्षितुं रक्त इवाक्षमः स्फुटम् ॥ ४९ ॥
तदा च सामूत् सहसा तिरोहिता
नृषस्य तस्याश्च तथा बभूव सः ।