यतो मिथश्चेतसि तौ ममज्जतु-
स्ततो बहिर्युक्तमदर्शनं तयोः ॥ ५० ॥
अथामुनानन्दसुधारसस्रुता
सुखोदयेन स्मरबन्धुकान्तिना ।
वरेण राज्ञा विरहं गता सती
कुमुद्वतीव ग्लपिता बभूव सा ॥ ५१ ॥
तदीक्षणानन्दजमश्रु शीतलं
यदास्त तस्याः प्रथमं क्रमेण तत् ।
प्रवासदुःखप्रभवेन वह्निना
प्रवर्तितक्वाथमिवोष्णतां ययौ ॥ ५२ ॥
सुदीर्घनिःश्वासमरुद्विजृम्भितै-
चचाल तस्याः पृथुलं कुचद्वयम् ।
हृदि स्थितानां विरहानलोष्मणां
पुरःस्थितिं सोढुमिवाक्षमं मुहुः ॥ ५३ ॥
विदह्यमानोऽपि वियोगवह्निना
विचित्रमस्याः स्मरसायकव्रणः ।
हृदि स्थितः प्रेमरसायनोक्षितः
शशाम न प्रत्युत विस्तृतिं ययौ ॥ ५४ ॥
तमोमयं विश्वमिवाथ तन्वता
वियोगदुःखेन नवेन सा वधूः ।
विजृम्भमाणेन मुहुर्विपाण्डुरा
बभूव हंसीव घनेन मूर्छि[१]ता ॥ ५५ ॥