तथा विसंज्ञां पतितां महीतले
समेत्य माध्वीति किलामराङ्गना ।
अबोधयत् तां विरहातुरां वधूं
प्रभेव बाला सवितुः सरोजिनीम् ॥ ५६ ॥
निरुन्धता यातुमिवोधतानसून्
मुहुः स्पृशन्त्या शिशिरेण पाणिना ।
तयानुष्पृष्टा परितापकारणं
शशंस सा बाष्पविकुण्ठितस्वरा ॥ ५७ ॥
स कोऽपि चक्षुप्यतनुः प्रभानिधि-
र्गजेन्द्रगामी मृगराजविक्रमः ।
सु[१]सूक्ष्मदृष्टिः पृथुलायतेक्षणो
विभुर्विनीतश्च युवा मयेक्षितः ॥ ५८ ॥
अहीनमूर्तिः स वसुन्धराधरः
स भूरिकीर्तिः कमलोदयाश्रयः ।
स तुङ्गवंशः कृतकार्मुकस्थितिः
स ईश्वरः सम्भृतसर्वमङ्गलः ॥ ५९ ॥
तदाप्रभृत्येव मनः क्व मे गतं
न वेद्मि मा[२]न्ये! मदनायुधक्ष[३]तम् ।
मनोहरेणोष्मवता विहारिणा
ह्रतं नु दग्धं नु तिरस्कृतं नु वा ॥ ६० ॥
मनोभवश्वेदयमस्य विग्रहे
क्व भङ्गकारी भविता स ईश्वरः ।