पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
तृतीयः सर्गः ।


यदीन्दुमूर्ति: परिभूतिरस्य का
 रविप्रतापैर्भुवनोत्तरैरपि ॥ ६१ ॥

न सर्वथा तेन विनाहमुत्सहे
 मनस्विना मत्तगजेन्द्रगामिना ।
निरर्थकान् क्लेशफलानिमानसू-
 नजेव वो[१]ढुं गलवर्तिनः स्तनान् ॥ ६२ ॥

जगाद माध्वी च तथा व्यथावतीं
 तवास्मि मात्रा प्रहिता हिता सखी ।
अहं यतिष्ये युवयोः समागमे
 प्रभातवेलेव रथाङ्गसंज्ञयोः ॥ ६३ ॥

स चक्रवर्ती शिशिरांशुवंशज-
 स्त्वमध्यपत्यं खलु गाधिजन्मनः ।
तदस्तु वां शक्रशचीप्रकाशयोः
 समागमः श्लाघ्यतमो मनीषितः ॥ ६४ ॥

इत्थं गाः शिशिरसुखाः प्रयुज्य माध्वी
 [२]प्तायां[३] प्रियविरहोष्मणा कुमा[४]र्याम् ।
बिभ्राणा निबिडपयोधरश्रियं ता-
 मभ्रान्तं सपदि यथागतं ययौ च ॥ ६५ ॥

इति कृष्णविरचिते भरतचरिते द्वितीयः सर्गः ॥


अथ तृतीयः सर्गः ।

इत्थं वियोगविधुरः स नरेश्वरोऽपि
 सौधे सुधाशशिमणिप्रकराभिरामे ।


  1. 'सो',
  2. 'दी',
  3. 'याः',
  4. 'र्याः' ग. पाठः.