आह स्म सापि मृदुलस्मितमुद्गिरन्ती
वाग्देवतासरणिसंस्तरणांशुकाभम् ।
माध्वीति [१] वासवगृहे परिचारिकाह-
मामूलतः शृणु ममागभने निमित्तम् ॥ ७ ॥
अभ्यर्थिता वलभिदा किल मेनका सा
मत्प्रेयसी कुशिकसूनुसकाशमेत्य ।
रूपेण तेन भुवनत्रयसुन्दरेण
घोरं जहार हृदयं च तपश्च तस्य ॥ ८ ॥
तस्य प्रसङ्गकृतसङ्गमगर्भयोगात्
कन्यामसूत गुणसङ्घटनाभिरामाम् ।
भूषामणेरपि विभूषणतां दधानां
मुक्ताश्रियं जलनिधेरिव ताम्रपर्णीं ॥ ९ ॥
निक्षिप्य वृष्टिरिव सम्पदमुर्वराया-
मुर्व्या प्रसूतिमथ सा दिवमारुरोह ।
जात्यन्तरैः पिकवधूरिव सा शकुन्तै-
स्त्राता कुमार्यपि जगाम शकुन्तलाख्याम् ॥ १० ॥
सा सान्द्रपल्लवमनोहरकान्तिभारा
भूयः स्वयं करविसृष्टपयःप्रसादा ।
संवर्धिता वनलतेव महर्षिणाभूत्
कण्वेन दैवघटिता करुणापणेन ॥ ११ ॥
सा सम्प्रति प्रथमयौवनभारखिन्ना
त्वां वीक्ष्य मन्मथविधेयतनुः कुमारी ।