यद्वायमध्यपर एव विषावतारः
सन्दर्शयन्निजममुं हृदि कालिमानम् ।
दिग्धो बहिः सततमब्धिकफेन पाण्डु-
राविर्भवञ्जलनिधेर्हिमधामनामा ॥ १८ ॥
आहो स्वयं परिणतः शनकैर्विषात्मा
राहोर्मुहुर्निगरणोद्गरणैर्मृगाङ्कः ।
इत्थं निरीक्ष्य निजतापकरं निशायां
सास्रा हिमद्युतिमुपालभते मृगाक्षी ॥ १९ ॥
वाताशनैर्विषधरैः पथि चन्दनस्थै-
र्भुक्तोज्झिता इव विषच्छुरिताः स्पृशन्तः ।
मन्दानिलाः सरसचन्दनगन्धगर्भा-
स्तां मूर्छयन्ति हिमनिर्झरशीकरार्द्राः ॥ २० ॥
दोषार्थिनी कुमुदिनी विमुखी च मित्रे
सन्तापयेत् कुमदपाण्डुमृदुस्मितां ताम् ।
नो युज्यते तपति यत् प्रतिभुक्तदोषा
मित्रप्रिया कमलिनी कमलायताक्षीम् ॥ २१ ॥
चूताङ्कुराः स्मरशराः स्वयमेव नैव
तेषां रसाः परिणताश्च त एवं मन्ये ।
यत् कोकिलास्तदुपभोगविशुद्धशब्दैः
कण्डैस्तुदन्ति शतधा हृदयं तरुण्याः ॥ २२ ॥
सा स्वस्ति कीर्तयति चन्द्रराभितप्ता
ज्योत्स्नाशिने निशि चकोरकुलाय बाला ।