भूयस्तरामसितपक्षसमागमाय
यत्र स्वयं विलयमेति शनैः शशाङ्कः ॥ २३ ॥
एषा कथा हिमरुचः कुमुदाकरस्य
पद्माकरस्य मलयद्रुममारुतस्य ।
तत् केन तापहरणेन सखीजनोऽपि
तस्यास्तनोत्वनुगुणं शिशिरोपचारम् ॥ २४ ॥
आरोपितः स्मरकृशानुमये कृशाङ्गया
निष्यन्दमानपृषतो हृदि चन्द्रकान्तः ।
सन्तापधूममलिनीकृतवर्णकान्तिः
सद्यः पुरन्दरमाणित्वमुपैति वानः ॥ २५ ॥
तल्पीकृतानि सरसोत्पलपल्लवानि
चूर्णांकृतानि परिशोषणमर्मराणि ।
अङ्गेषु मन्मथशरव्रणविह्वेलेषु
लेपीभवन्ति सुदृशः श्रमजोक्षितानि ॥ २६ ॥
युक्तं तदेव बिसिनीदलमारुतस्तु
साचिव्यमाचरति यद् विरहानलस्य ।
पाथस्तु शीतलमभिज्वलनं यदस्य
तन्नोचितं भवति सर्पिरिवायताक्ष्याः ॥ २७ ॥
विश्वम्भरेश्वर ! कृतं बहुभाषितेन
न त्वां विना शरणमस्ति शकुन्तलायाः ।
क्लिष्टा कथं निशि कठोरतुषारपातै-
रर्क विना कमलिनी लभते विकासम् ॥ २८ ॥