इत्थं निवेद्य विरहातुरतामसह्यां
माध्वी मुनीन्द्रदुहितुर्मनुजेश्वराय ।
तस्मै गिरामवसरं दिशती निवृत्ता
वीणेव श[१]खनिनदाय विजृम्भिताय ॥ २९ ॥
राजा च[२] बाष्पचयकुण्ठितधीरनादः
सद्यः प्रमृष्टवदनो मृदुना क्रमेण ।
आसारसिक्त इव दुन्दुभिरक्षमोऽपि
शब्दान् कथकथमपि प्रथमं च[३]कार ॥ ३० ॥
गाढं कयापि करुणालतयानुकृष्टा
मद्भाग्यमारुतपरम्परया च नुन्ना ।
प्राप्तासि दुस्तरवियोगतरङ्गदुर्गे
शोकार्णवे मयि निमज्जति नौरिव त्वम् ॥ ३१ ॥
अन्तर्घनोष्ण[४]भरदुर्वहजीवनस्य
सा मत्परेति मधुरोत्तरशब्दरम्या |
वृष्टिर्नवेव महती कमलाकरस्य
सञ्जीवनं मम भवत्यधुना करोति ॥ ३२ ॥
यद्वा करोति भवती परितापवृद्धि-
माशामिमां हृदि निबध्य गुणैः प्रियायाः ।
यां गीतिकामिव विधाय शरीरजन्मा
मत्प्राणकातरकुरङ्गकुलं रुणद्धि ॥ ३३ ॥